Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 241

1875 Mantra
Devata- मरुतः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
न꣡ हि व꣢꣯श्चर꣣मं꣢ च꣣ न꣡ वसि꣢꣯ष्ठः प꣣रिम꣡ꣳस꣢ते । अ꣣स्मा꣡क꣢म꣣द्य꣢ म꣣रु꣡तः꣢ सु꣣ते꣢꣫ सचा꣣ वि꣡श्वे꣢ पिबन्तु का꣣मि꣡नः꣢ ॥२४१॥

न꣢ । हि । वः꣣ । चरम꣢म् । च꣣ । न꣢ । व꣡सि꣢꣯ष्ठः । प꣣रिमँ꣡स꣢ते । प꣣रि । मँ꣡स꣢꣯ते । अ꣣स्मा꣡क꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । म꣣रु꣡तः꣢ । सु꣣ते꣢ । स꣡चा꣢꣯ । वि꣡श्वे꣢꣯ । पि꣣बन्तु । कामि꣡नः꣢ ॥२४१॥

Mantra without Swara
न हि वश्चरमं च न वसिष्ठः परिमꣳसते । अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः ॥

न । हि । वः । चरमम् । च । न । वसिष्ठः । परिमँसते । परि । मँसते । अस्माकम् । अद्य । अ । द्य । मरुतः । सुते । सचा । विश्वे । पिबन्तु । कामिनः ॥२४१॥

Samveda - Mantra Number : 241
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्ययनाध्यापनपक्षे। मरुतो देवताः। हे मरुतः विद्यार्थिनः। युष्माकं मध्ये (चरमं च न) हीनकोटिकमपि विद्यार्थिनम् (वसिष्ठः२) विद्यया वासयितृतमः आचार्यः (नहि) नैव (परिमंसते३) परित्यजति, विद्यया वञ्चितं न करोतीत्यर्थः। परिपूर्वाद् मनु अवबोधने धातोर्लेटि ‘सिब्बहुलं लेटि’ अ० ३।१।३४ इति सिपि रूपम्। परिरत्र वर्जनार्थः। (अद्य) अस्मिन् दिने (सुते) विद्यायज्ञे प्रवृत्ते सति (अस्माकम्) नः (विश्वे) सर्वे (कामिनः) विद्याग्रहणेच्छवः (मरुतः) विद्यार्थिनः (सचा) संभूय (पिबन्तु) विद्यारसपानं कुर्वन्तु ॥ म्रियन्ते इति मरुतः। मृत्युरूपस्याचार्यस्य गर्भे स्थित्वा पूर्वसंस्कारान् परित्यज्य मृत्वा वा विद्यातः पुनर्जन्म प्राप्नुवन्ति, तस्माद् विद्यार्थिनो मरुत उच्यन्ते। आचार्यस्य मृत्युरूपत्वं च श्रुतिरेवमाह—‘आ॒चा॒र्यो मृ॒त्युः’ (अथ० ११।५।१४) इति। अन्यच्च—“आ॒चा॒र्य उपनय॑मानो ब्रह्मचा॒रिणं कृणुते॒ गर्भ॑म॒न्तः। तं रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः” ॥ (अथ० ११।५।३) इति ॥ अथ द्वितीयः—कर्मफलभोगपक्षे। हे मरुतः मरणधर्माणो मनुष्याः। (वः) युष्माकं मध्ये (चरमं च न) अन्यतममपि (वसिष्ठः) अतिशयेन वस्ता वसिष्ठः सर्वव्यापकः परमेश्वरः। वस आच्छादने, तृजन्ताद् इष्ठनि ‘तुरिष्ठेमेयस्सु’, अ० ६।४।१५४ इति तृचो लोपः। (नहि परिमंसते) विना कर्मफलदानेन नैव परित्यजति, पूर्वस्मादारभ्य चरमपर्यन्तं सर्वेभ्य एव कर्मफलं प्रयच्छतीत्यर्थः। (अद्य) अस्मिन् दिने वर्तमानकाले इत्यर्थः (सुते) उत्पन्ने जगति (अस्माकम्) अस्मन्मध्ये (विश्वे) सर्वेऽपि (कामिनः) अभ्युदयाकांक्षिणः (मरुतः४) मरणधर्माणो मनुष्याः (सचा) संभूय (पिबन्तु) कर्मफलान्यास्वादयन्तु ॥९॥५ अत्र श्लेषालङ्कारः ॥९॥
Essence
यथा वसिष्ठः परमेश्वरो निरपवादं सर्वेभ्यो जीवात्मभ्यः कर्मानुसारं फलं प्रयच्छति तथैव वसिष्ठ आचार्यस्तथा सरलया शैल्या शिष्यानध्यापयेत् यथा निरपवादं सर्वेऽपि शिष्या विद्याग्रहणे क्षमन्ताम् ॥९॥
Subject
अथाचार्यस्य परमात्मनश्च कृत्यमाह।
Footnote
१. ऋ० ७।५९।३, ‘पिबन्तु’ इत्यत्र ‘पिबत’ इति पाठः। २. ‘(वसिष्ठः) अतिशयेन विद्यासु कृतवासः (विद्वज्जनः)’ इति ऋ० ७।२६।५ भाष्ये, ‘अतिशयेन वासयिता इति’ च ७।५९।३ भाष्ये द०। ३. परिमंसते वर्जयित्वा स्तौति—परिः वर्जने। मतिः स्तुतिकर्मा। सर्वानेव युष्मान् स्तौति—इति भ०। चरमं चन जघन्यमपि नहि परिमंसते वर्जयित्वा न स्तौति—इति सा०। ४. मृङ् प्राणत्यागे धातोः ‘मृग्रोरुतिः’ उ० १।९४ इति उतिः प्रत्ययः। ‘म्रियते इति मरुत् मनुष्यजातिः पवनो वा’ इत्युणादिकोशव्याख्याने द०। ५. दयानन्दर्षिः ऋग्भाष्ये मन्त्रमिमं मनुष्याणां किं कर्तव्यमिति विषये व्याचष्टे।