Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 240

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न्ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥२४०॥

त्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣣वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥२४०॥

Mantra without Swara
त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥

त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । वावृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत् । इन्द्र । अश्वमिष्टये । अश्वम् । इष्टये ॥२४०॥

Samveda - Mantra Number : 240
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमेश्वर राजन् वा ! (त्वं हि) त्वं खलु (चेरवे२) चरतीति चेरुः तस्मै संचरणकर्त्रे पुरुषार्थिने मह्यम् (आ इहि) आगच्छ, (वसुत्तये३) वसुदानकर्त्रे मह्यम्। वसुपूर्वाद् डुदाञ् धातोः क्तिनि निरुपसर्गत्वेऽपि छान्दसत्वात् ‘अच उपसर्गात्तः’ अ० ७।४।४७ इत्यनेन विहितस्तकारादेशो भवति। (भगम्) वसु (विदाः) लम्भय। विद्लृ लाभे धातोरन्तर्भावितण्यर्थात् लेटि सिपि ‘लेटोऽडाटौ’ अ० ३।४।९४ इति आडागमः। हे (मघवन्) ऐश्वर्यशालिन् ! त्वम् (गविष्टये४) गवाम् इन्द्रिय-पृथिवीराज्य-विद्याप्रकाशानाम् इष्टयः इच्छाः यस्य स गविष्टिः तस्मै मह्यम् (उद्वावृषस्व५) उद्वरीवृष्यस्व धनविद्यादिकम् अतिशयेन पुनः पुनः उद्वर्षय। अत्र यङि छान्दसत्वात् ‘रीगृदुपधस्य च’ अ० ७।४।९० इति प्राप्तो रीगागमो न भवति। त्वम् (अश्वमिष्टये६) अश्वम् तुरगबलवेगप्राणादिकम् इच्छतीति अश्वमिष्टिः तस्मै मह्यम्। अत्र समासे द्वितीयाया अलुक् छान्दसः। (उद्वावृषस्व) अतिशयेन पुनःपुनरुद्वर्षय ॥८॥ अत्र श्लेषालङ्कारः। ‘एहि, विदाः, उद्वावृषस्व’, इति सर्वासां क्रियाणामेककर्तृकारकसम्बन्धाद् दीपकमपि। ‘ष्टय, ष्टये’ इति छेकानुप्रासः, द्वितीय-चतुर्थपादान्ते ‘अये, अये’ इति श्रवणादन्त्यानुप्रासश्च ॥८॥
Essence
परमेश्वरो राजादयो राज्याधिकारिणश्च तस्यैव साहाय्यं कुर्वन्ति यः ‘चरैवेति चरैवेति’, (ऐ० ब्रा० ७।३।३) इत्युपदेशं स्वजीवने चरितार्थयति, पुरुषार्थेन च धनं संचित्य सत्पात्रेषु तस्य दानमपि करोति ॥८॥
Subject
अथ परमेश्वरो राजा च प्रार्थ्यते।
Footnote
१. ऋ० ८।६१।७, साम० १५८१। २. चेरुः चेतयिता। ज्ञातुर्मम भगस्यार्थाय—इति वि०। चेरुश्चरतेः, आचरते कर्माणि—इति भ०। कर्मपराचारवते मह्यम्—इति सा०। ३. वसूनि हविर्लक्षणानि ददाति इति वसुत्तिः हव्यदातिर्यजमानः तस्मै—इति भ०। धनदानं वसुत्तिः, तस्मै धनदानार्थम् इति वि०। ४. गविष्टौ गवाम् इन्द्रियपृथिवीराज्यविद्याप्रकाशानाम् इष्टयो यस्मिंस्तस्मिन् इति ऋ० १।९१।२३ भाष्ये द०। इषु इच्छायाम् इत्यस्येदं रूपम्। गोकामाय इत्यर्थः—इति वि०। गवामन्वेषणाय—इति भ०। गाः इच्छते मह्यम्—इति सा०। ५. वृषु तृषु मृषु सेचने इत्यस्येदं रूपम्। सेवनं च क्षरणम्। क्षर देहि इत्यर्थः—इति वि०। उद्युक्तो भव—इति भ०। आसिञ्चस्व देहीत्यर्थः—इति सा०। ६. अश्वैषणावते मह्यम्—इति सा०। अश्वान्वेषणाय—इति भ०।