Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 24

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢ग्ने꣣ र꣡क्षा꣢ णो꣣ अ꣡ꣳह꣢सः꣣ प्र꣡ति꣢ स्म देव रीष꣣तः꣢ । त꣡पि꣢ष्ठैर꣣ज꣡रो꣢ दह ॥२४॥

अ꣡ग्ने꣢꣯ । र꣡क्ष꣢꣯ । नः꣣ । अँ꣡ह꣢꣯सः । प्र꣡ति꣢꣯ । स्म꣣ । देव । रीषतः꣢ । त꣡पि꣢꣯ष्ठैः । अ꣣ज꣡रः꣢ । अ꣣ । ज꣡रः꣢꣯ । द꣣ह ॥२४॥

Mantra without Swara
अग्ने रक्षा णो अꣳहसः प्रति स्म देव रीषतः । तपिष्ठैरजरो दह ॥

अग्ने । रक्ष । नः । अँहसः । प्रति । स्म । देव । रीषतः । तपिष्ठैः । अजरः । अ । जरः । दह ॥२४॥

Samveda - Mantra Number : 24
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) ज्योतिष्मन् परमात्मन् ! त्वम् (नः) अस्मान्। संहितायां नश्च धातुस्थोरुषुभ्यः अ० ८।४।२७ इति नस्य णः। (अंहसः) पापाचरणात् (रक्ष) परित्रायस्व। संहितायां द्व्यचोऽतस्तिङः अ० ६।३।१३५ इति दीर्घः। हे (देव) दिव्यगुणकर्मस्वभाव, सकलैश्वर्यप्रदातः, प्रकाशमान, सर्वप्रकाशक ! (देवो) दानाद्वा, दीपनाद्वा, द्योतनाद्वा इति निरुक्तम्। ७।१५। (अजरः) स्वयं हिंसाजर्जरत्वादिरहितस्त्वम् (रिषतः) अस्माकं हिंसापरायणान् आन्तरान् बाह्यांश्च शत्रून् रीषतः इति संहितायां छान्दसं दीर्घत्वम्। (तपिष्ठैः) सन्तापकतमैः स्वकीयैः तेजोभिः (प्रति दह स्म) भस्मसात् कुरु ॥४॥२ अत्र श्लेषेण भौतिकाग्निपक्षे राजपक्षे चाप्यर्थो योजनीयः ॥४॥३
Essence
यथा भौतिकाग्निः शीतादन्धकाराद् व्याघ्रादिभ्यश्च रक्षति, यथा वा राजा पापिनो दण्डयित्वाऽऽक्रामकान् रिपूँश्च पराजित्य प्रजां पापाच्छत्रुभ्यश्च रक्षति, तथैव परमात्माऽस्मभ्यमात्मरक्षायाः सामर्थ्यं दत्त्वाऽस्मान् पापाचरणादान्तराद् बाह्याच्च शत्रोः रक्षेत् ॥४॥
Subject
अथ परमात्मा पापादिभ्यो रक्षणार्थं प्रार्थ्यते।
Footnote
१. ऋ० ७।१५।१३, स्म इत्यत्र ष्म इति पाठः। २. स्म इति पूरणः—इति वि० भ०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं भौतिकाग्निसादृश्येन राजपक्षे व्याख्यातवान्।