Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 239

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
पि꣡बा꣢ सु꣣त꣡स्य꣢ र꣣सि꣢नो꣣ म꣡त्स्वा꣢ न इन्द्र꣣ गो꣡म꣢तः । आ꣣पि꣡र्नो꣢ बोधि सध꣣मा꣡द्ये꣢ वृ꣣धे꣢३ऽस्मा꣡ꣳ अ꣢वन्तु ते꣣ धि꣡यः꣢ ॥२३९॥

पि꣡बा꣢꣯ । सु꣣त꣡स्य꣢ । र꣣सि꣡नः꣢ । म꣡त्स्व꣢꣯ । नः꣣ । इन्द्र । गो꣡म꣢꣯तः । आ꣣पिः꣢ । नः꣣ । बोधि । सधमा꣡द्ये꣢ । स꣣ध । मा꣡द्ये꣢꣯ । वृ꣣धे꣢ । अ꣣स्मा꣢न् । अ꣣वन्तु । ते । धि꣡यः꣢꣯ ॥२३९॥

Mantra without Swara
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्ये वृधे३ऽस्माꣳ अवन्तु ते धियः ॥

पिबा । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोमतः । आपिः । नः । बोधि । सधमाद्ये । सध । माद्ये । वृधे । अस्मान् । अवन्तु । ते । धियः ॥२३९॥

Samveda - Mantra Number : 239
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। हे (इन्द्र) परमेश्वर ! त्वम् (रसिनः) रसमयस्य (सुतस्य) अस्माभिरभिषुतस्य भक्तिभावरूपस्य सोमस्य (पिब) पानं कुरु। द्वितीयार्थे षष्ठी। संहितायां ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः। (गोमतः) प्रशस्ता गाव इन्द्रियाणि वेदवाचो वा येषां सन्तीति तान् प्रशस्तेन्द्रियान् वेदपाठिनो वा (नः) अस्मान् (मत्स्व२) मादयस्व आनन्दय। मद तृप्तियोगे चुरादिर्वेदे भ्वादिरपि प्रयुज्यते। (सधमाद्ये३) सह माद्यन्ति जना अत्रेति सधमाद्यो विश्वयज्ञस्तस्मिन्। ‘सधमादस्थयोश्छन्दसि’ अ० ६।३।९६ इति सहस्य सधादेशः। (वृधे) वर्द्धनाय (समुन्नत्यै)। वृधु वर्धने धातोः क्विपि चतुर्थ्येकवचने रूपम्। (आपिः) बन्धुः सन् (नः) अस्मान् (बोधि४) बोधय। (ते) तव (धियः) प्रज्ञाः कर्माणि च (अस्मान्) नः (अवन्तु) रक्षन्तु ॥ अथ द्वितीयः—राजपक्षे। हे (इन्द्र) ऐश्वर्यशालिन् राजन् ! त्वम् (रसिनः) रसमयस्य (सुतस्य) निश्च्योतितस्य सोमाद्योषधिरसस्य (पिब) आस्वादनं कुरु। तेन शक्तिशाली भवंस्त्वम् (गोमतः) प्रशस्तभूस्वामिनः (नः) अस्मान् (मत्स्व) आनन्दय। (सधमाद्ये) राष्ट्रयज्ञे (वृधे) वर्धनाय (आपिः) बन्धुः सन् (नः) अस्मान् प्रजाजनान् (बोधि) जागरूकान् कुरु। (ते) तव (धियः) राजनीतिकुशला बुद्धयः राष्ट्रोत्थानकर्माणि च (अस्मान्) प्रजाजनान्(अवन्तु) रक्षन्तु ॥७॥ अत्र श्लेषालङ्कारः ॥७॥
Essence
परमेश्वरस्य कृपया नृपाणां पुरुषार्थेनैव च राष्ट्रोन्नतिः प्रजानामानन्दो विश्वशान्तिश्च सम्भवति ॥७॥
Subject
अथ परमेश्वरो नृपश्चाऽस्माकं वर्धनाय भूयादित्याह।
Footnote
१. ऋ० ८।३।१ ‘सधमाद्ये’ इत्यत्र ‘सधमाद्यो’ इति पाठः। साम० १४२१। २. मत्स्व अस्माभिः स्तुतः सन् सदा हर्षय। ‘बहुलं छन्दसि’ इति श्यनो लुक्—इति ऋ० १।९।३ भाष्ये द०। ३. सह माद्यन्ते यत्र देवताः स सधमाद्यः यज्ञः तस्मिन्—इति वि०। भरतस्वामिसायणयोर्मतेऽपि यज्ञ एवार्थः। ४. बोधि बोधय, अत्र लोडर्थे लङ् अडभावोऽन्तर्गतो ण्यर्थश्च इति ऋ० १।३१।९ भाष्ये द०। बुध्यस्व। यद्यदहं ब्रवीमि तत् सर्वं शृण्वित्यर्थः—इति वि०। बोधि भव, भवतेर्लोटि रूपमिदम्, हेर्धिः, भकारस्य बकारः, शपो लुक्, गुणश्छान्दसः—इति सा०।