Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 238

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त꣣र꣢णि꣣रि꣡त्सि꣢षासति꣣ वा꣢जं꣣ पु꣡र꣢न्ध्या यु꣣जा꣢ । आ꣢ व꣣ इ꣡न्द्रं꣢ पुरुहू꣣तं꣡ न꣢मे गि꣣रा꣢ ने꣣मिं꣡ तष्टे꣢꣯व सु꣣द्रु꣡व꣢म् ॥२३८॥

त꣣र꣡णिः꣢ । इत् । सि꣣षासति । वा꣡जम् । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । युजा꣢ । आ । वः꣣ । इ꣡न्द्र꣢꣯म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । न꣣मे । गिरा꣢ । ने꣣मि꣢म् । त꣡ष्टा꣢꣯ । इ꣣व । सुद्रु꣡व꣢म् । सु꣣ । द्रु꣡व꣢꣯म् ॥२३८॥

Mantra without Swara
तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥

तरणिः । इत् । सिषासति । वाजम् । पुरन्ध्या । पुरम् । ध्या । युजा । आ । वः । इन्द्रम् । पुरुहूतम् । पुरु । हूतम् । नमे । गिरा । नेमिम् । तष्टा । इव । सुद्रुवम् । सु । द्रुवम् ॥२३८॥

Samveda - Mantra Number : 238
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तरणिः२ इत्) दुःखेभ्यस्तारकः इन्द्रः परमेश्वरः नृपश्चैव (युजा) सदा सहचरीभूतया (पुरन्ध्या३) महत्या बुद्ध्या क्रियया च। पुरु बहुनाम। निघं० ३।१। धीः कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। पुरन्धिर्बहुधीरिति यास्कः। निरु० ६।१३। (वाजम्) बलं धनं विज्ञानं वा (सिषासति४) सत्पात्रेभ्यः संभजति ददाति वा। षण संभक्तौ, षणु दाने वा धातोः सन्नन्तं रूपम्। ‘जनसनखनां सञ्झलोः’ अ० ६।४।४२ इत्यात्वम्। अतोऽहं (पुरुहूतम्) बहुस्तुतम् (इन्द्रम्) तं परमेश्वरं नृपं वा (गिरा) वाचा (वः) युष्मभ्यम् (आनमे) आनयामि कार्ये प्रवृत्तं करोमि, (तष्टा इव) शिल्पी यथा (नेमिम्) रथचक्रवलयम् (सुद्रुवम्५) सुप्रवृत्तां करोति तद्वत् ॥६॥ अत्र श्लेषोपमालङ्कारौ ॥६॥
Essence
सुप्रज्ञः सुकर्मा च परमेश्वरो नृपो वा यथायोग्यं जनेभ्यः सुखधनविद्यादिकं प्रयच्छतीति प्रार्थनावचोभिस्तयोः स्वाभिमुखं प्रवृत्तिः सर्वैः कारणीया। यथा रथचक्रस्य प्रवृत्त्यैव रथाधिष्ठिता जना गन्तव्यं स्थानं प्राप्तुमर्हन्ति तथैव परमेश्वरस्य नृपस्य च प्रजाभिमुखं प्रवृत्त्यैव जनानामभ्युदयः सम्भवति ॥६॥६
Subject
अथ परमेश्वरस्य नृपस्य वाऽऽनुकूल्यमाप्तुमाह।
Footnote
१. ऋ० ७।३२।२० ‘सुद्रुवम्’ इत्यत्र ‘सुद्रवम्’ इति पाठः। २. तरणिः क्षिप्रकारी इन्द्रः—इति वि०। तरणिरित् त्वरित एव—इति भ०। ३. पुरन्ध्या बुद्ध्या युजा सहायभूतया—इति भ०। ४. सिषासति संभक्तुमिच्छति—इति वि०। संभजति, सिषासति इत्यत्र सनोतेः स्वार्थिकस्सन्—इति भ०। ५. ऋ० ७।३०।२० सुद्र्वम् इति पाठः। तत्र सुद्र्वम् यः सुष्ठु द्रवति गच्छति धावति तम्—इति द०। सुद्रुवं शोभनकाष्ठम्। एतदुक्तं भवति, यथा शोभनं काष्ठं तक्षणादिभिः तष्टा वर्षकिः वक्रं करोति तद्वत् स्तुतिभिः ऋजूकरोमीत्यर्थः—इति वि०। यथा नेमिं तष्टा आनमते सुद्रुवं शोभनदारुकं तथा त्वाम् आनमे—इति भ०। ६. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं राजप्रजापक्षे व्याख्यातवान्।