Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 237

1875 Mantra
Devata- इन्द्रः Rishi- कलिः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त꣡रो꣣भिर्वो वि꣣द꣡द्व꣢सु꣣मि꣡न्द्र꣢ꣳ स꣣बा꣡ध꣢ ऊ꣣त꣡ये꣢ । बृ꣣ह꣡द्गाय꣢꣯न्तः सु꣣त꣡सो꣢मे अध्व꣣रे꣢ हु꣣वे꣢꣫ भरं꣣ न꣢ का꣣रि꣡ण꣢म् ॥२३७॥

त꣡रो꣢꣯भिः । वः꣣ । विद꣡द्व꣢सुम् । वि꣣द꣢त् । व꣣सुम् । इ꣡न्द्र꣢꣯म् । स꣣बा꣡धः꣢ । स꣣ । बा꣡धः꣢꣯ । ऊ꣣त꣡ये꣢ । बृ꣣ह꣢त् । गा꣡य꣢꣯न्तः । सु꣣त꣡सो꣢मे । सु꣣त꣢ । सो꣣मे । अध्वरे꣢ । हु꣣वे꣢ । भ꣡र꣢म् । न । का꣣रि꣡ण꣢म् ॥२३७॥

Mantra without Swara
तरोभिर्वो विदद्वसुमिन्द्रꣳ सबाध ऊतये । बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥

तरोभिः । वः । विदद्वसुम् । विदत् । वसुम् । इन्द्रम् । सबाधः । स । बाधः । ऊतये । बृहत् । गायन्तः । सुतसोमे । सुत । सोमे । अध्वरे । हुवे । भरम् । न । कारिणम् ॥२३७॥

Samveda - Mantra Number : 237
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (वः) यूयम् (सबाधः२) बाधाभिराक्रान्ताः सन्तः। बाधते इति बात्, बाधृधातोः क्विप्। बाधा बाधया सहिताः सबाधः। (ऊतये) रक्षायै (सुतसोमे) सुतः अभिषुतः सोमः श्रद्धारसः कर्मरसश्च यस्मिन् तथाविधे (अध्वरे) हिंसारहिते जीवनयज्ञे (तरोभिः) वेगपूर्वकं बलपूर्वकं च। तरस् इति वेगवाचकं लोके प्रसिद्धम्। बलनाम। निघं० २।९। (विदद्वसुम्३) वेदयद्वसुम् भौतिकाध्यात्मिकैश्वर्यप्रदातारम् (इन्द्रम्) परमेश्वरम् (बृहत्) प्रचुरम् (गायन्तः) गानविषयीकुर्वन्तः भवत। अहमपि (भरम् न) कुटुम्बभरणकर्त्तारं गृहपतिमिव (कारिणम्४) कर्मयोगिनं तम् इन्द्रं परमेश्वरम्। कर्तुं शीलं यस्य स कारी तम्। डुकृञ् करणे धातोश्छन्दस्युपपदाभावेऽपि ताच्छील्ये णिनिर्विज्ञेयः। (हुवे) आह्वयामि ॥५॥ अत्रोपमालङ्कारः ॥५॥
Essence
यदा यदा मनुष्याः स्वजीवने विघ्नबाधाभिः पीड्यन्ते तदा तदा तैः परमेश्वरः स्मरणीयः। स्मृतः स तान् पुरुषार्थे कर्मयोगे च प्रवर्तयति। यथा कश्चिद् गृहपतिः कर्मपरायण एव सन् कुटुम्बभरणक्षमो जायते, तथैव परमेश्वरोऽपि कर्मपरायण एव सन् विश्वं बिभर्ति, सर्वानुपासकाँश्चापि कर्मयोगे प्रेरयति ॥५॥
Subject
अथ पुनः परमेश्वरं स्मरणीयमाह।
Footnote
१. ऋ० ८।६६।१, साम० ६८७। २. सबाधः मदीया ऋत्विजः—इति वि०। सबाधमानाः परस्परम्, यद्वा बाधसहिताः, शत्रुभिः बाध्यमानाः—इति भ०। बाधासहिताः—इति सा०। ३. विद्ल्रेर्लाभार्थस्येदं रूपम्। विदितं धनं येन स विदद्वसुः तम्। आत्मीर्यर्बलैः शत्रुधनानामपहर्तारमित्यर्थः—इति वि०। लब्धवन्तं धनानि—इति भ०। वेदयद्वसुम् धनवेदकम्—इति सा०। ४. करोतीति सन्निधानात् संग्रामम्। एतदुक्तं भवति, यथा संग्रामे योद्धा प्रतियोद्धारं महता यत्नेन आह्वयति तद्वदाह्वयन्तीत्यर्थः—इति वि०। भरं न भरन्तमिव बलवन्तमिव कारिणम् उपकारिणं योद्धारम्—इति भ०। भरं न भर्तारं कुटुम्बपोषकं कारिणं स्वहितकरणशीलम् यथा स्वहितकरणायाह्वयन्ति पुत्रादयः तद्वत्—इति सा०।