Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 236

1875 Mantra
Devata- इन्द्रः Rishi- नोधा गौतमः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
तं꣡ वो꣢ द꣣स्म꣡मृ꣢꣫ती꣣ष꣢हं꣣ व꣡सो꣢र्मन्दा꣣न꣡मन्ध꣢꣯सः । अ꣣भि꣢ व꣣त्सं꣡ न स्वस꣢꣯रेषु धे꣣न꣢व꣣ इ꣡न्द्रं꣢ गी꣣र्भि꣡र्न꣢वामहे ॥२३६॥

त꣢म् । वः꣣ । दस्म꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ति । स꣡ह꣢꣯म् । व꣡सोः꣢꣯ । म꣣न्दान꣢म् । अ꣡न्ध꣢꣯सः । अ꣣भि꣢ । व꣣त्स꣢म् । न । स्व꣡स꣢꣯रेषु । धे꣣न꣡वः꣣ । इ꣡न्द्र꣢꣯म् । गी꣣र्भिः꣢ । न꣣वामहे ॥२३६॥

Mantra without Swara
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥

तम् । वः । दस्मम् । ऋतीषहम् । ऋति । सहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीर्भिः । नवामहे ॥२३६॥

Samveda - Mantra Number : 236
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः (वः) युष्माकम्, अस्माकं चेत्यपि द्योत्यते (दस्मम्२) दर्शनीयम्, यद्वा दुःखानामुपक्षयितारम्। दसि दंशनदर्शनयोः, दसु उपक्षये, ‘इषि युधीन्धिदसि’ उ० १।१४५ इति मक् प्रत्ययः। (ऋतीषहम्३) ऋतय आक्रान्तारः शत्रवस्तेषामभिभवितारम्। ऋ गतौ धातोः क्तिनि ऋतिः। ऋतिपूर्वात्, मर्षणार्थाद् अभिभवार्थाद् वा षह धातोः ‘छन्दसि सहः’ अ० ३।२।६३ इति ण्विः। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घः। (वसोः) वसुनः धनभूतात् (अन्धसः) भक्तिरूपात् सोमरसात्। अन्ध इति सोमनाम। निरु० १३।६। (मन्दानम्) आनन्दन्तम् (तम्) प्रसिद्धम् (इन्द्रम्) परमेश्वरम् (अभि) अभिलक्ष्य (स्वसरेषु४) दिनोदयेषु गृहेषु वा। स्वसराणि अहानि भवन्ति, स्वयंसारीणि, अपि वा स्वरादित्यो भवति स एनानि सारयति। निरु० ५।४। गृहनाम। निघं० ३।४। (गीर्भिः) वाग्भिः, वयम् (नवामहे) स्तुमः। णु स्तुतौ अदादिः, लटि ‘बहुलं छन्दसि’ अ० २।४।७३ इति शपो लुक् न, आत्मनेपदं छान्दसम्। (न) यथा। न इत्युपमार्थीयः। निरु० १।४। (धेनवः) पयस्विन्यो गावः (वत्सम् अभि) वत्समभिलक्ष्य (स्वसरेषु) दिनोदयेषु प्रातर्दोहनवेलासु गोष्ठरूपेषु गृहेषु वा नुवन्ति हम्भारवं कुर्वन्ति ॥४॥५ अत्रोपमालङ्कारः ॥४॥
Essence
यथा गोष्ठेषु स्थिता गावो दिनारम्भेषु पयः पाययितुं वत्सं प्रति प्रेम्णा हम्भारवं कुर्वन्ति तथैव परमात्मानं प्रति प्रजाभिरस्माभिः प्रेमनिर्भराभिर्भूत्वा स्तुतिगीतानि गेयानि ॥४॥
Subject
अथ स परमात्मा कीदृशोऽस्ति यं वयं स्तुम इत्याह।
Footnote
१. ऋ० ८।८८।१, य० २६।१, साम० ६८५, अथ० २०।९।१, ४९।४। २. दस्मम् उपक्षयितारं शत्रूणाम्—इति वि०। दर्शनीयम्—इति भ०, सा०। ३. ऋतयः सेनाः गन्तृत्वात्। ता योऽभिभवति स ऋतीषाट्, तम् ऋतीषहम्। परकीयानां सेनानामभिभवितारम् इत्यर्थः—इति वि०। अर्तेः ऋतिः अरिः, अरीणामभिभवितारम्—इति भ०। ऋतयो बाधकाः शत्रवः तेषामभिभवितारम्—इति सा०। य ऋतीन् परपदार्थप्रापकाञ्छत्रून् सहते तम् इति ऋ० ६।१४।४ भाष्ये द०। ४. स्वसरेषु यागगृहेषु—इति वि०। गोष्ठेषु—इति भ०। सूर्यनेतृकेषु दिवसेषु—इति सा०। ५. दयानन्दर्षिर्यजुर्भाष्ये मन्त्रमिमं राजप्रजापक्षे व्याचष्टे।