Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 235

1875 Mantra
Devata- इन्द्रः Rishi- प्रस्कण्वः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भि꣡ प्र वः꣢꣯ सु꣣रा꣡ध꣢स꣣मि꣡न्द्र꣢मर्च꣣ य꣡था꣢ वि꣣दे꣢ । यो꣡ ज꣢रि꣣तृ꣡भ्यो꣢ म꣣घ꣡वा꣢ पुरू꣣व꣡सुः꣢ स꣣ह꣡स्रे꣢णेव꣣ शि꣡क्ष꣢ति ॥२३५॥

अ꣣भि꣢ । प्र । वः꣣ । सुरा꣡ध꣢सम् । सु꣣ । रा꣡ध꣢꣯सम् । इ꣡न्द्र꣢꣯म् । अ꣣र्च । य꣡था꣢꣯ । वि꣣दे꣢ । यः । ज꣣रितृ꣡भ्यः꣢ । म꣣घ꣡वा꣢ । पु꣣रूव꣡सुः꣢ । पु꣣रू । व꣡सुः꣢꣯ । स꣣ह꣡स्रे꣢ण । इ꣣व । शि꣡क्ष꣢꣯ति ॥२३५॥

Mantra without Swara
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥

अभि । प्र । वः । सुराधसम् । सु । राधसम् । इन्द्रम् । अर्च । यथा । विदे । यः । जरितृभ्यः । मघवा । पुरूवसुः । पुरू । वसुः । सहस्रेण । इव । शिक्षति ॥२३५॥

Samveda - Mantra Number : 235
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (वः२) यूयम् (सुराधसम्) प्रशस्तधनं, शुभसफलतादायकं वा। राधस् इति धननाम। निघं० २।१०। राध संसिद्धौ धातोरौणादिकोऽसुन् प्रत्ययः। संसिद्धिः साफल्यम्। (इन्द्रम्) परमेश्वरम् (अभि) अभिलक्ष्य तथा (प्र अर्च) प्रकर्षेण अर्चत। अत्र बहुलं छन्दसि सर्वे विधयो भवन्तीति अनात्मनेपदेऽपि ‘लोपस्त आत्मनेपदेषु’ इति तकारलोपः। (यथा) येन प्रकारेण तदर्चनम् (विदे३) विविदे ज्ञायते। विद ज्ञाने धातोः कर्मणि लडर्थे लिटि द्वित्वाभावश्छान्दसः। कीदृशमिन्द्रमित्याह। (यः) प्रसिद्धः (मघवा४) ऐश्वर्यवान् दानवान् वा, (पुरूवसुः) पुरु बहु, वसुः वासयिता, पुरूणां बहूनां वा वासयिता इन्द्रः परमेश्वरः (जरितृभ्यः) स्तोतृभ्यः। जरिता इति स्तोतृनाम। निघं० ३।१६। (सहस्रेण इव) हस्तसहस्रेणेव (शिक्षति) ददाति, भौतिकीमाध्यात्मिकीं च संपदं प्रयच्छति। शिक्षतिर्दानकर्मा। निघं० ३।२० ॥३॥ ‘सहस्रेणेव शिक्षति’ इत्यत्रोत्प्रेक्षालङ्कारः ॥३॥
Essence
प्रचुरसम्पत्तिशाली पुरुषार्थिनां साफल्यप्रदाता निवासप्रदो भूरिशः सुखसम्पद्वर्षकः परमेश्वरः सर्वैर्मनुष्यैः श्रद्धयाऽभ्यर्चनीयः ॥३॥
Subject
अथ परमेश्वरस्यार्चनाय जनान् प्रेरयति।
Footnote
१. ऋ० ८।४९।१, अथ० २०।५१।१, साम० ८११, सर्वत्र प्रस्कण्वः ऋषिः। २. वः त्वम् अर्च—इति भ०। वः यूयम् अर्चत—इति सा०। ३. यथा विदे। विद्यते ज्ञायते यथा तथा—इति भ०। यथास्माभिर्ज्ञायते—इति सा०। ४. मघवान् धनवान्—इति वि०। मघं दानं मंहतेः। दानवान् नित्यदानः—इति भ०।