Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 234

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्वा꣡मिद्धि हवा꣢꣯महे सा꣣तौ꣡ वाज꣢꣯स्य का꣣र꣡वः꣢ । त्वां꣢ वृ꣣त्रे꣡ष्वि꣢न्द्र꣣ स꣡त्प꣢तिं꣣ न꣢र꣣स्त्वां꣢꣫ काष्ठा꣣स्व꣡र्व꣢तः ॥२३४॥

त्वा꣢म् । इत् । हि । ह꣡वा꣢꣯महे । सा꣣तौ꣢ । वा꣡ज꣢꣯स्य । का꣣र꣡वः꣢ । त्वाम् । वृ꣣त्रे꣡षु꣢ । इ꣣न्द्र । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । न꣡रः꣢꣯ । त्वाम् । का꣡ष्ठा꣢꣯सु । अ꣡र्व꣢꣯तः ॥२३४॥

Mantra without Swara
त्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥

त्वाम् । इत् । हि । हवामहे । सातौ । वाजस्य । कारवः । त्वाम् । वृत्रेषु । इन्द्र । सत्पतिम् । सत् । पतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥२३४॥

Samveda - Mantra Number : 234
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विपद्विदारक सकलसंपत्प्रदायक परमेश्वर राजन् वा ! (कारवः) स्तुतिकर्तारः, कर्मयोगिनो वयम्। कारुः स्तोतृनाम। निघं० ३।१६। कर्ता स्तोमानाम्। निरु० ६।६। कर्ता कर्मणामित्यप्युन्नेयम्। डुकृञ् धातोः ‘कृवापाजि’ उ० १।१। इति उण् प्रत्ययः। (वाजस्य) बलस्य (सातौ२) प्राप्तिनिमित्तम् निमित्तार्थे सप्तमी। षण सम्भक्तौ। ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ अ० ३।३।९७ इति क्तिन्नन्तो निपातः। उदात्त इत्यनुवृत्तेः क्तिन उदात्तत्वं च। (त्वाम् इत् हि) त्वामेव खलु (हवामहे) आह्वयामः। ह्वेञ् धातोः ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणे रूपम्। (नरः) पौरुषसंपन्नाः वयम् (वृत्रेषु) पापेषु शत्रुषु वा आक्रामत्सु (सत्पतिम्) सतां रक्षकम् (त्वाम्) परमात्मानं राजानं वा बलप्राप्तये हवामहे। (अर्वतः३) अश्वादिकस्य सेनाङ्गस्य। अर्वा इत्यश्वनाम। निघं० १।१४, अर्वा इत्युपलक्षणमन्येषामपि सेनाङ्गानाम्। यद्वा (अर्वतः) अग्नेः, तदुपलक्षितानाम् आग्नेयास्त्राणां वैद्युतास्त्राणां च। अग्निर्वा अर्वा। तै० ब्रा० १।३।६।४। (काष्ठासु) संग्रामेषु। आज्यन्तोऽपि काष्ठा उच्यते। निरु० २।१५। (त्वाम्) परमात्मानं राजानं वा बलप्राप्तये हवामहे ॥२॥४ अत्र श्लेषालङ्कारः ॥२॥
Essence
परमेश्वरस्य नृपादीनां चाह्वानं मनुष्यैः स्वयं कर्मण्यैर्भूत्वा करणीयम्। यदा पापरूपाणि पापिरूपाणि वा वृत्राण्याक्रामन्ति, यदा वा दैत्यैः सह देवानां हस्त्यश्वरथपादातैः सेनाङ्गैराग्नेयास्त्रैर्वैद्युतास्त्रैर्वा घोरं भीषणं युद्धं प्रवर्तते तदा परमेश्वरान्नृपाच्च सहयोगं प्रेरणां बलं साहसं च प्राप्य शत्रुर्धूलिसात् करणीयः ॥२॥
Subject
अथेन्द्रनाम्ना परमेश्वरं नृपं चाह्वयन्ति।
Footnote
१. ऋ० ६।४६।१, अथ० २०।९८।१, उभयत्र ‘सातौ’ इति स्थाने ‘साता’ इति पाठः। य० २७।३७। साम० ८०९। सर्वत्र शंयुः ऋषिः। २. सातिर्लाभः। तस्मादियं निमित्तसप्तमी। निमित्तं च प्रयोजनम्। धनलाभार्थमित्यर्थः—इति वि०। सातौ लाभे निमित्ते—इति भ०। ३. (अर्वता) अश्वादिभिः सेनाङ्गैः—इति ऋ० १।८।२ भाष्ये, ‘अश्वादियुक्तेन’ इति च ऋ० २।२।१० भाष्ये द०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये शिल्पविद्याविषये यजुर्भाष्ये च राजधर्मविषये व्याचष्टे।