Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 233

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भि꣡ त्वा꣢ शूर नोनु꣣मो꣡ऽदु꣢ग्धा इव धे꣣न꣡वः꣢ । ई꣡शा꣢नम꣣स्य꣡ जग꣢꣯तः स्व꣣र्दृ꣢श꣣मी꣡शा꣢नमिन्द्र त꣣स्थु꣡षः꣢ ॥२३३॥

अ꣣भि꣢ । त्वा꣣ । शूर । नोनुमः । अ꣡दु꣢ग्धाः । अ । दु꣣ग्धाः । इव । धेन꣡वः꣢ । ई꣡शा꣢꣯नम् । अ꣣स्य꣢ । ज꣡ग꣢꣯तः । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । ई꣡शा꣢꣯नम् । इ꣣न्द्र । तस्थु꣡षः꣢ ॥२३३॥

Mantra without Swara
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥

अभि । त्वा । शूर । नोनुमः । अदुग्धाः । अ । दुग्धाः । इव । धेनवः । ईशानम् । अस्य । जगतः । स्वर्दृशम् । स्वः । दृशम् । ईशानम् । इन्द्र । तस्थुषः ॥२३३॥

Samveda - Mantra Number : 233
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शूर) विक्रमशालिन् (इन्द्र) परमैश्वर्यवन् जगदीश्वर ! (अस्य) एतस्य पुरो दृश्यमानस्य (जगतः) जङ्गमस्य। जगत् जङ्गमम्। निरु० ९।१३। (ईशानम्) अधीश्वरम्, (तस्थुषः) स्थावरस्य, ष्ठा गतिनिवृत्तौ, लिटः क्वसुः, तस्थिवान्। षष्ठ्येकवचने तस्थुषः। (ईशानम्) अधीश्वरम्, (स्वर्दृशम्२) मोक्षसुखस्य दर्शयितारम् (त्वा अभि) त्वामभिलक्ष्य, वयं प्रजाः (अदुग्धाः धेनवः३ इव) दोहनमप्राप्ता गाव इव, अदुग्धा धेनवो यथा वत्सं दृष्ट्वा पयः पाययितुं हम्भारवं कुर्वन्ति तथेत्यर्थः, (नोनुमः) अतिशयेन पुनः पुनः स्तुमः। णु स्तुतौ इत्यस्य यङ्लुकि प्रयोगः। अत्र त्वमस्मदीयो वत्सवत् प्रिय इति ध्वन्यते ॥१॥४ अत्रोपमालङ्कारः ॥१॥
Essence
यथा धेनवो वत्सं स्वकीयं पयः पाययित्वा विनिमयेन सुखं गृह्णन्ति, तथैव मनुष्यैः परमेश्वरेण सह प्रीतिं संयोज्य सर्वविधमाभ्युदयिकं नैःश्रेयसं च सुखं प्राप्तव्यम् ॥१॥
Subject
अथ गुणवर्णनपूर्वकं परमात्मानं स्तौति।
Footnote
१. ऋ० ७।३२।२२, य० २७।३५, अथ० २०।१२१।१, साम० ६८०। २. स्वर्दृशम्। स्वः आदित्यः, तमिव यः पश्यति सः स्वर्दृक्। आदित्यमिव सर्वस्य जगतः द्रष्टारमित्यर्थः—इति वि०। स्वर्दृशं सर्वदृशम्—इति भ०, सा०। सुखेन द्रष्टुं योग्यम् इति ऋ० ७।३२।२२ भाष्ये, स्वः सुखं दृश्यते यस्मात् इति च ऋ० ३।२।१४ भाष्ये द०। ३. अचिरप्रसूता गावः धेनुशब्देनोच्यन्ते। ताः यथा आत्मीयं वत्सं स्नेहार्द्रेण मनसा हुंकारादिभिरभिनन्दति तद्वत् स्तुम इत्यर्थः—इति वि०। यथा अदुग्धा धेनवः क्षीरपूर्णोधस्त्वेन वर्तन्ते तद्वत् सोमपूर्णचमसत्वेन वर्तमाना वयम्—इति सा०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमेश्वरपक्षे यजुर्भाष्ये च राजपक्षे व्याचष्टे।