Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 231

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनोऽभीपाद् उदलो वा Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣡न्द्र꣢ पृ꣣क्षु꣡ कासु꣢꣯ चिन्नृ꣣म्णं꣢ त꣣नू꣡षु꣢ धेहि नः । स꣡त्रा꣢जिदुग्र꣣ पौ꣡ꣳस्य꣢म् ॥२३१

आ꣢ । इ꣣न्द्र । पृक्षु꣢ । का꣡सु꣢꣯ । चि꣣त् । नृम्ण꣢म् । त꣣नू꣡षु꣢ । धे꣣हि । नः । स꣡त्रा꣢꣯जित् । स꣡त्रा꣢꣯ । जि꣣त् । उग्र । पौँ꣡स्य꣢꣯म् ॥२३१॥

Mantra without Swara
एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः । सत्राजिदुग्र पौꣳस्यम् ॥२३१

आ । इन्द्र । पृक्षु । कासु । चित् । नृम्णम् । तनूषु । धेहि । नः । सत्राजित् । सत्रा । जित् । उग्र । पौँस्यम् ॥२३१॥

Samveda - Mantra Number : 231
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) शत्रुविदारक दुःखच्छेदक परमात्मन् राजन् वा ! त्वम् (कासुचित् पृक्षु१) येषु केषुचित् देवासुरसंग्रामेषु। पृच्यन्ते परस्परं संसृज्यन्ते यत्र ताः पृचः संग्रामाः तासु, पृची सम्पर्के धातोः क्विपि रूपम्। (नः) अस्माकम् (तनूषु) शरीरेषु (नृम्णम्) बलं स्फूर्तिं वा। नृम्णमिति बलनाम। निघं० २।९, नृम्णं बलं, नॄन् नतम्। निरु० ११।७५। (आ धेहि) आस्थापय। हे (सत्राजित्२) सत्यजित् सदाजिद् वा ! सत्रा इति सत्यनाम। निघं० ३।१०। (उग्र) तीव्रतेजस्क परमात्मन् राजन् वा ! त्वम् अस्मासु (पौंस्यम्) आत्मबलं धर्मार्थकाममोक्षरूपं पुरुषार्थ चापि आधेहि। पुंसो भावः कर्म वा पौंस्यम्, ष्यञ् प्रत्ययः। पौस्यमिति बलनाम। निघं० २।९। ॥९॥ अत्र श्लेषालङ्कारः ॥९॥
Essence
यथा परमात्मा सर्वेष्वान्तरिकेषु बाह्येषु च संग्रामेषु शत्रून् विजेतुं धर्मार्थकाममोक्षानधिगन्तुं च प्रेरयति तथा राजापि कुर्यात् ॥९॥
Subject
अथ परमात्मानं राजानं च बलादिकं प्रार्थयमान आह।
Footnote
१. पृक्षु। पृची सम्पर्के इत्यस्येदं रूपम्। सम्पृच्यन्ते यस्यां यागक्रियायां यजमाना देवैः सह सा पृक्। तासु पृक्षु। यागक्रियासु इत्यर्थः—इति वि०। सङ्ग्रामेषु—इति भ०। सम्पृक्तासु कासुचित्—इति सा०। २. सत्रा शब्दः यद्यपि सत्यनाम, तथापीह सदाशब्दस्यार्थे द्रष्टव्यः। सदाजिदिति सत्राजित्। सदा शत्रूणां जेता इत्यर्थः—इति वि०। सर्वस्य जेतः—इति भ०। द्वादशाहादिभिः सत्रैः जीयमानो वशीक्रियमाणः सन्—इति सा०।