Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 230

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
व꣣यं꣡ घा꣢ ते꣣ अ꣡पि꣢ स्मसि स्तो꣣ता꣡र꣢ इन्द्र गिर्वणः । त्वं꣡ नो꣢ जिन्व सोमपाः ॥२३०॥

व꣣य꣢म् । घ꣣ । ते । अ꣡पि꣢꣯ । स्म꣣सि । स्तोता꣡रः꣢ । इ꣣न्द्र । गिर्वणः । गिः । वनः । त्व꣢म् । नः꣣ । जिन्व । सोमपाः । सोम । पाः ॥२३०॥

Mantra without Swara
वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः । त्वं नो जिन्व सोमपाः ॥

वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः । गिः । वनः । त्वम् । नः । जिन्व । सोमपाः । सोम । पाः ॥२३०॥

Samveda - Mantra Number : 230
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (गिर्वणः२) गीर्भिः वेदवाग्भिः वननीय संभजनीय (इन्द्र) परमैश्वर्यवन् परमात्मन् ! वयम् (स्तोतारः) स्तुतिकर्त्तारः (घ) नूनम्। संहितायां ‘ऋचि तु नु घ०’ अ० ६।३।१३६ इति दीर्घः। (ते अपि) तवैव (स्मसि) स्मः भवामः। ‘इदन्तो मसि’ अ० ७।१।४६ इति मस इदन्तत्वम्। हे (सोमपाः) अस्माकं मैत्रीरसस्य पातः ! (त्वम् नः) अस्मान् (जिन्व) प्रीणय। जिवि प्रीणनार्थे भ्वादिः ॥८॥
Essence
ये परमात्मना सम्बन्धं योजयन्ति परमात्मापि तान् सदा सुखयति ॥८॥
Subject
अथ परमात्मनः स्तुतिविषयमाह।
Footnote
१. ऋ० ८।३२।७ ‘स्मसि’ इत्यत्र ‘ष्मसि’ इति पाठः। २. द्रष्टव्यम्—१६५ संख्यकस्य मन्त्रस्य व्याख्यानम्।