Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 23

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣡ग्ने꣢ मृ꣣ड꣢ म꣣हा꣢ꣳ अ꣣स्य꣢य꣣ आ꣡ दे꣢व꣣युं꣡ जन꣢꣯म् । इ꣣ये꣡थ꣢ ब꣣र्हि꣢रा꣣स꣡द꣢म् ॥२३॥

अ꣡ग्ने꣢꣯ । मृ꣣ड꣢ । म꣣हा꣢न् । अ꣣सि । अ꣡यः꣢꣯ । आ । दे꣣वयु꣢म् । ज꣡न꣢꣯म् । इ꣣ये꣡थ꣢ । ब꣣र्हिः꣢ । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢म् ॥२३॥

Mantra without Swara
अग्ने मृड महाꣳ अस्यय आ देवयुं जनम् । इयेथ बर्हिरासदम् ॥

अग्ने । मृड । महान् । असि । अयः । आ । देवयुम् । जनम् । इयेथ । बर्हिः । आसदम् । आ । सदम् ॥२३॥

Samveda - Mantra Number : 23
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) प्रकाशस्वरूप जगन्नायक परमात्मन् ! (मृड) मां सुखय। मृड सुखने, लोण्मध्यमैकवचनम्। त्वम् (महान्) महिमोपेतः (असि) वर्त्तसे। त्वम् (देवयुम्) देवान् दिव्यगुणान् देवं परमात्मानं वाऽऽत्मनः कामयते स देवयुस्तम्, दिव्यगुणाभिलाषिणं परमात्माभिलाषिणं वा। क्यचि क्याच्छन्दसि अ० ३।२।१७० इत्युप्रत्ययः। (जनम्) त्वद्भक्तं माम् (अयः) प्राप्तोऽसि। अय गतौ, भ्वादिः लङ्, व्यत्ययेन परस्मैपदम्। बर्हिः हृदयासनम् (आसदम्) आसत्तुम्, उपवेष्टुम्। आङ्पूर्वात् षद्लृ विशरणगत्यवसादनेषु धातोस्तुमर्थे णमुल्। (इयेथ) आयातोऽसि। इण् गतौ धातोः छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति वर्त्तमानेऽर्थे लिट् ॥३॥
Essence
हे परमेश्वर ! अन्तर्यामिन् ! त्वं परमकृपया त्वद्भक्तस्य मम हृदयासनमध्यासितुं समागतोऽसि। सततं दिव्यगुणसन्निधिं त्वत्सन्निधिञ्च कामयमानोऽहं त्वदनुग्रहं याचे। त्वं महानसि, मद्विषयेऽपि स्वं महिमानं चरितार्थं कुरु। सर्वदा मामानन्दय ॥३॥
Subject
अथ परमात्मानं सुखं प्रार्थयते।
Footnote
१. ऋ० ४।९।१ अय आ इत्यत्र य ईमा इति पाठः। ऋग्भाष्ये दयानन्दर्षिः मन्त्रमिमं विद्वत्सत्कारविषये व्याख्यातवान्