Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 229

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ब्रा꣡ह्म꣢णादिन्द्र꣣ रा꣡ध꣢सः꣣ पि꣢बा꣣ सो꣡म꣢मृ꣣तू꣡ꣳरनु꣢꣯ । त꣢वे꣣द꣢ꣳ स꣣ख्य꣡मस्तृ꣢꣯तम् ॥२२९॥

ब्रा꣡ह्म꣢꣯णात् । इ꣣न्द्र । रा꣡ध꣢꣯सः । पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । ऋ꣣तू꣢न् । अ꣡नु꣢꣯ । त꣡व꣢꣯ । इ꣣द꣢म् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । अ꣡स्तृ꣢꣯तम् । अ । स्तृ꣣तम् ॥२२९॥

Mantra without Swara
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूꣳरनु । तवेदꣳ सख्यमस्तृतम् ॥

ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इदम् । सख्यम् । स । ख्यम् । अस्तृतम् । अ । स्तृतम् ॥२२९॥

Samveda - Mantra Number : 229
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! त्वम् (राधसः) ध्यानयज्ञसंसाधकात्। राध्नोतीति राधाः तम्। राध संसिद्धौ धातोः औणादिकोऽसुन् प्रत्ययः। (ब्राह्मणात्२) वेदेश्वरविदः मत्सकाशात्। ब्रह्म वेदम् ईश्वरं वा अधीते वेद वा स ब्राह्मणः ‘तदधीते तद्वेद’ इत्यस्मिन्नर्थे अण् प्रत्ययः। (ऋतून् अनु) ऋत्वनुरूपं यथाकालमित्यर्थः। (सोमम्) मदीयं मैत्रीरसम् (पिब) आस्वादय। मया सह (तव) त्वदीयम् (इदम्) एतत् (सख्यम्) सखित्वम् (अस्तृतम्) सदाऽविनष्टम्, तिष्ठत्विति शेषः। स्तृणातिः वधकर्मा। निघं० २।१९। अथ द्वितीयः—गुरुशिष्यपरः। हे (इन्द्र) विद्युद्वत्तीव्रबुद्धे विद्यार्थिन् ! त्वम् (राधसः) अध्ययनाध्यापनयज्ञसाधकात् (ब्राह्मणात्) वेदेश्वरविदो ब्राह्मणस्वभावात् आचार्यात् (ऋतून् अनु) ऋतौ ऋतौ (सोमम्) ज्ञानरसम् (पिब) आस्वादय। (तव) त्वदीयम् (इदम्) एतद् गुरुशिष्यसम्बन्धरूपम् (सख्यम्) सखित्वम् (अस्तृतम्) अविनष्टं तिष्ठतु ॥७॥३ अत्र श्लेषालङ्कारः ॥७॥
Essence
ये परमात्मनो गुरोश्च सख्यं प्राप्नुवन्ति ते सदा सुखिनो भवन्ति ॥७॥
Subject
अथ परमात्मन आचार्यस्य च सख्यं प्रार्थ्यते।
Footnote
१. ऋ० १।१५।५ ‘तवेदं’ इत्यत्र ‘तवेद्धि’ इति पाठः। २. (ब्राह्मणम्) वेदेश्वरविदम् इति य० ३०।५ भाष्ये द०। ३. ऋग्भाष्ये मन्त्रोऽयं दयान्दर्षिणा वायुपक्षे व्याख्यातः।