Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 228

1875 Mantra
Devata- इन्द्रः Rishi- दुर्मित्रः कौत्सः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क꣣दा꣡ व꣢सो स्तो꣣त्रं꣡ हर्य꣢꣯त आ꣡ अव꣢꣯ श्म꣣शा꣡ रु꣢ध꣣द्वाः꣢ । दी꣣र्घ꣢ꣳ सु꣣तं꣢ वा꣣ता꣡प्या꣢य ॥२२८॥

क꣣दा꣢ । व꣣सो । स्तोत्र꣢म् । ह꣡र्य꣢꣯ते । आ । अ꣡व꣢꣯ । श्म꣣शा꣢ । रु꣣धत् । वा꣡रिति꣢दी꣣र्घ꣢म् । सु꣣त꣢म् । वा꣣ता꣡प्या꣢य । वा꣣त । आ꣡प्या꣢꣯य ॥२२८॥

Mantra without Swara
कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः । दीर्घꣳ सुतं वाताप्याय ॥

कदा । वसो । स्तोत्रम् । हर्यते । आ । अव । श्मशा । रुधत् । वारितिदीर्घम् । सुतम् । वाताप्याय । वात । आप्याय ॥२२८॥

Samveda - Mantra Number : 228
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—भौतिकवृष्टिपरः। चिरकालीनवृष्टिव्युपरमे सति जलाभावपीडितः कश्चिदाह। हे (वसो) निवासप्रद इन्द्र जगदीश्वर ! वृष्ट्यर्थम् (स्तोत्रम्) स्तोमम् (हर्यते) त्वां प्रति गमयते मह्यम्। हर्य गतिकान्त्योः शतरि चतुर्थ्येकवचने रूपम्। (कदा) कस्मिन् काले (श्मशा२) वृष्ट्युदकपूर्णा नदी कुल्या वा। श्मशा शु अश्नुते इति वा, श्म अश्नुते इति वा। निरु० ५।१२। (वाः) उदकम् (आ अवरुधत्) आनीय क्षेत्रजलाशयादौ अवरोत्स्यति। रुधिर् आवरणे धातोर्लेटि रूपम्। मया (वाताप्याय३) उदकाय। वाताप्यम् उदकं भवति, वात एतदाप्याययति। निरु० ६।२८। (दीर्घम्) दीर्घकालं यावत् (सुतम्) वृष्टियागो निष्पादितः। अथ द्वितीयः—अध्यात्मवृष्टिपरः। दिव्यानन्दरसपूर्णस्य परमेश्वरस्य सकाशादानन्दवृष्टिं कामयमानः कश्चिदाह। हे (वसो) निर्धनस्य मम धनभूत, निवासप्रद जगदीश्वर ! आनन्दरसवर्षणार्थम् (स्तोत्रम्) स्तुतिम् (हर्यते) त्वां प्रति गमयते मह्यम् (कदा) कस्मिन् काले (श्मशा) त्वत्सकाशात् प्रवहन्ती आनन्दवारिधारा (वाः) आनन्दरसम् (आ अवरुधत्) आनीय मदीये हृदयरूपे क्षेत्रे जलाशये वा अवरोत्स्यति ? हे रसागार ! चिरदुःखदावाग्निदग्धेन मया (वाताप्याय) दिव्यानन्दवारिवर्षणाय (दीर्घम्) सुदीर्घकालं यावत् (सुतम्) श्रद्धारसप्रस्रवणपूर्वकम् अध्यात्मयागो निष्पादितः। तथापि किमिति आनन्दवारिवर्षा मां न प्राप्नुवन्ति ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
Essence
यथाऽनावृष्टौ जातायां वर्षणार्थं दीर्घो वृष्टियज्ञोऽनुष्ठीयते तथैवानन्दरसपिपासुरहमानन्दरसवृष्टिमाप्तुं दीर्घं ध्यानयज्ञं चिरादनुतिष्ठन्नस्मि। हे प्रभो ! तथापि किमिति त्वमानन्दवारि न वर्षयसि ? वर्षय, वर्षय, देव ! दिव्यानन्दं वर्षय। अन्यथा बहुविधसांसारिकसंतापसंतप्तोऽहं नोत्सहिष्ये जीवनमपि धारयितुम् ॥६॥
Subject
अथ भौतिकीं दिव्यां च वृष्टिं कामयमानः कश्चिदाह।
Footnote
१. ऋ० १०।१०५।१ ‘आ अव’ इत्यत्र ‘आव’ इति पाठः। २. श्मशा-शब्देनापि कुल्योच्यते। लुप्तोपमं चेदं द्रष्टव्यम्। श्मशेव कुल्येवोदकम्। एतदुक्तं भवति यथा कुल्या उदकमवरुणद्धि तद्वत् कदा स्तोत्रम् अवरोत्स्यसि, श्रोष्यसीत्यर्थः—इति वि०। श्मशा वायुः। शु आशु अश्नुते इति श्मशा वायुः इति यास्कः। आ अभिमुखम् अवारुधत् अवरुन्धीत वाः उदकम् तव स्तोत्रं हर्यते कामयमानाय यजमानाय—इति भ०। कदा कस्मिन् काले अवारुधत् अवरोत्स्यसि, अवरुध्य च कदा वाः वारयिष्यति। अश्नुते क्षेत्रम् इति श्मशा कुल्या, लुप्तोपमम् एतत्। यथा कुल्येतस्तत उदकान्यवरुणद्धि अवरुध्य च वारयति तथेत्यर्थः—इति सा०। ३. वातं प्राणम् आप्यायति इति वाताप्यम् उदकम्। आपोमयः प्राण इति श्रुतेः—इति भ०। वातेन आप्यते अधस्तान्निपात्यते इति वाताप्यम् उदकम्—इति सा०।