Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 227

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ या꣣ह्यु꣡प꣢ नः सु꣣तं꣡ वाजे꣢꣯भि꣣र्मा꣡ हृ꣢णीयथाः । म꣣हा꣡ꣳ इ꣣व꣢ यु꣡व꣢जानिः ॥२२७॥

आ꣢ । या꣣हि । उ꣡प꣢꣯ । नः꣣ । सुत꣢म् । वा꣡जे꣢꣯भिः । मा । हृ꣣णीयथाः । महा꣢न् । इ꣣व । यु꣡व꣢꣯जानिः । यु꣡व꣢꣯ । जा꣣निः ॥२२७॥

Mantra without Swara
आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः । महाꣳ इव युवजानिः ॥

आ । याहि । उप । नः । सुतम् । वाजेभिः । मा । हृणीयथाः । महान् । इव । युवजानिः । युव । जानिः ॥२२७॥

Samveda - Mantra Number : 227
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् ! महाँस्त्वम् (वाजेभिः) वाजैः आध्यात्मिकबलरूपैर्योगैश्वर्यरूपैश्च उपहारैः सह (नः) अस्माकम् (सुतम्) प्रारब्धमुपासनायज्ञम् (आ याहि) आगच्छ, (मा हृणीयथाः) रोषं संकोचं च (मा) कार्षीः। हृणीङ् रोषणे लज्जायां च, कण्ड्वादिः। (इव) यथा (युवजानिः) युवतिः तरुणी जाया धर्मपत्नी यस्य तादृशः (महान्) गुणैर्विशालः कश्चित् पुरुषः संकोचं रोषं च विहाय वाजैः बहुमूल्यैरुपहारैः सह भार्यामादाय परेषां यज्ञं गच्छति ॥५॥२ अत्रोपमालङ्कारः।
Essence
यथा रूपवद्भार्यः कश्चिन्महान् पुरुषः सामान्यजनानामपि निमन्त्रणं स्वीकृत्योपहारानादाय भार्यया सह तेषां यज्ञं गच्छति, तथैव महानपि परमात्मा तुच्छैरप्यस्माभिरायोजिते उपासनायज्ञे आध्यात्मिकानामैश्वर्याणामुपहारं गृहीत्वा समागच्छेत् ॥५॥
Subject
अथ परमात्मानमुपासनायज्ञे निमन्त्रयन्नाह।
Footnote
१. ऋ० ८।२।१९, ‘ओ षु प्रयाहि वाजेभिर्मा हृणीथा अभ्यस्मान्’ इति तत्र पूर्वार्द्धपाठः। २. एत्य च स्तोकेन अपराधेन मा हृणीयथाः मा क्रोधं गमः, मा रोषीरित्यर्थः। महानिव युवजानिः। युवतिर्जाया यस्य स युवजानिः तरुणभार्यः इत्यर्थः। स यथा तरुण्या भार्याया अपराधेऽपि न रुष्यति, तद्वन्मा रोषीरित्यर्थः—इति वि०। स (युवजानिः) यथा जायामधिगच्छति न च तामधिक्रुध्यति तद्वत्—इति भ०। वाजेभिः अन्दीयैर्हवीरूपैरन्नैः मा हृणीयथा मा ह्रियस्व। तत्र दृष्टान्तः—यथा रूपवद्भार्योपेतः प्रभुः अन्याभिर्नापह्रियते, किन्तु तामेव युवतिं प्रत्यागच्छति तद्वत्—इति सा०।