Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 226

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्र꣢ उ꣣क्थे꣢भि꣣र्म꣡न्दि꣢ष्ठो꣡ वा꣡जा꣢नां च꣣ वा꣡ज꣢पतिः । ह꣡रि꣢वान्त्सु꣣ता꣢ना꣣ꣳ स꣡खा꣢ ॥२२६

इ꣡न्द्रः꣢꣯ । उ꣣क्थे꣡भिः꣢ । म꣡न्दि꣢꣯ष्ठः । वा꣡जा꣢꣯नाम् । च꣣ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । ह꣡रि꣢꣯वान् । सु꣣ता꣢ना꣢म् । स꣡खा꣢꣯ । स । खा꣣ ॥२२६॥

Mantra without Swara
इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवान्त्सुतानाꣳ सखा ॥२२६

इन्द्रः । उक्थेभिः । मन्दिष्ठः । वाजानाम् । च । वाजपतिः । वाज । पतिः । हरिवान् । सुतानाम् । सखा । स । खा ॥२२६॥

Samveda - Mantra Number : 226
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (इन्द्रः) परमैश्वर्यवान्, विघ्नविदारकः, सुखादिप्रदाता परमेश्वरः (उक्थेभिः) उक्थैः वेदमन्त्रैः (मन्दिष्ठः) मन्त्राध्येतॄणाम् अतिशयेन हर्षयिता वर्तते। यथा कश्चिन्महाकविः स्वकाव्येन काव्यपाठकान् हर्षयति तथेत्यर्थः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, तृचि मन्दिता, अतिशयेन मन्दिता इति मन्दिष्ठः, मन्दितृ शब्दादिष्ठनि, ‘तुरिष्ठेमेयस्सु’ अ० ६।४।१५४ इति तृचो लोपः। (वाजानाम्१ च) बलानां च। वाज इति बलनाम। निघं० २।९। (वाजपतिः) बलपतिः अस्ति। किञ्च (हरिवान्) प्रशस्तप्राणवान् सः। प्रशस्तार्थे मतुप्। प्राणो वै हरिः, स हि हरति। कौ० ब्रा० १७।१। (सुतानाम्) सर्वेषाम् पुत्राणां सर्वासाम् पुत्रीणां च (सखा) मित्रम् अस्ति ॥ अथ द्वितीयः—राजपरः। (इन्द्रः) राजा (उक्थेभिः) यशोभिः (मन्दिष्ठः) अतिशयेन आनन्दजनकः, (वाजानाम् च) सर्वविधानाम् अन्नानां धनानां बलानां विज्ञानानां च (वाजपतिः) अन्नपतिः धनपतिः बलपतिः विज्ञानपतिश्च, (हरिवान्) हरन्ति जनं स्वस्वविषयेषु इति हरयः इन्द्रियाणि तद्वान् प्रशस्तेन्द्रियो जितेन्द्रियो वा, यद्वा हरन्ति वहन्तीति हरयः विद्युदादिभिः सञ्चाल्यमानानि तीव्रवेगानि भूजलान्तरिक्षयानानि तद्वान्, राज्ये तत्प्रबन्धकर्तेत्यर्थः, किञ्च (सुतानाम्) पुत्रतुल्यानां प्रजाजनानाम् (सखा) सुहृद् भवेत् ॥४॥ अत्र श्लेषालङ्कारः। ‘वाजा, वाज’ इत्यत्र च छेकानुप्रासः ॥४॥
Essence
यथा विश्वसम्राट् परमेश्वरो विविधगुणगणाग्रणीरस्ति, तथैव प्रजानां मध्ये यो जनः कीर्तिमान् कीर्तिजनको धनपतिर्बलवान् विज्ञानवान् जितेन्द्रियः सुप्रबन्धकः सर्वैः सह सौहार्देन व्यवहर्ता च भवेत् स एव राजपदेऽभिषेचनीयः ॥४॥
Subject
अथ परमेश्वरः कीदृशोऽस्ति, राजा च कीदृशो भवेदित्याह।
Footnote
१. वाजपतिरिति वचनादेव गतार्थत्वे सति पुनः वाजानाम् इति कथनं बलानां व्यापकत्वं सूचयति, सर्वेषां बलानामधिपतिरित्यर्थः। सेयं शैली वेदे बहुत्र प्रयुक्ता, यथा—वसुपते वसूनाम् (ऋ० १०।४७।१), गोपतिं शूर गोनाम् (ऋ० ३।३६।९) इति।