Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 225

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣣क्थं꣢ च꣣ न꣢ श꣣स्य꣡मा꣢नं꣣ ना꣡गो꣢ र꣣यि꣡रा चि꣢꣯केत । न꣡ गा꣢य꣣त्रं꣢ गी꣣य꣡मा꣢नम् ॥२२५॥

उ꣣क्थ꣢म् । च꣣ । न꣢ । श꣣स्य꣡मा꣢नम् । न । अ꣡गोः꣢꣯ । अ । गोः꣣ । रयिः꣢ । आ । चि꣣केत । न꣢ । गा꣣यत्रम् । गी꣣य꣡मा꣢नम् ॥२२५॥

Mantra without Swara
उक्थं च न शस्यमानं नागो रयिरा चिकेत । न गायत्रं गीयमानम् ॥

उक्थम् । च । न । शस्यमानम् । न । अगोः । अ । गोः । रयिः । आ । चिकेत । न । गायत्रम् । गीयमानम् ॥२२५॥

Samveda - Mantra Number : 225
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अगोः२) अस्तोतुः अश्रद्दधानस्य जनस्य। गायतीति गौः वेदपाठी स्तोता। गौरिति स्तोतृनामसु पठितम्। निघं० ३।१६। यो गायन्नपि श्रद्दधानेन मनसा न गायति सः अगौरित्युच्यते तस्य। (न) नैव (शस्यमानम्) उदीर्यमाणम् (उक्थम् च) स्तोत्रं हि (न) नैव (रयिः३) दीयमानं धनम्, (न) नैव च (गीयमानम्) गानविषयीक्रियमाणम् (गायत्रम्) गायत्रनामकं साम (आचिकेत) आचिकिते, कदापि अवबुद्धं केनचित्। कित ज्ञाने लिट्, कर्मणि परस्मैपदं छान्दसम्। अतः श्रद्धयैव इन्द्रस्तुत्यादिकं कर्म करणीयमिति भावः ॥३॥ अत्र उक्थशंसनगायत्रगानादिरूपे कारणे सत्यपि तज्ज्ञानरूपकार्यानुत्पत्तिवर्णनाद् विशेषोक्तिरलङ्कारः ॥३॥
Essence
श्रद्धाविहीनस्य जनस्य शस्तमपि स्तोत्रमशस्तमिव भवति, दत्तमपि धनमदत्तमिव भवति, गीतमपि च सामगानमगीतमिव भवति। अतः श्रद्धयैव सर्वाणि शुभकार्याणि सम्पाद्यानि ॥३॥
Subject
कस्य कृतमपि कार्यं वृथैव भवतीत्याह।
Footnote
१. ऋ० ८।२।१४ ‘शस्यमानमगोररिराचिकेत’ इति पाठः। २. नागोः। कुङ् गुङ् अव्यक्ते शब्दे। गुः अव्यक्तभाषी। न गुः अगुः व्यक्तभाषी। न अगुः न व्यक्तभाषी नागुः। तस्य नागोः अव्यक्तभाषिण इत्यर्थः—इति वि०। अगोः गौरहितस्य गोभिः हीनस्य अदक्षिणस्य यजमानस्य—इति भ०। अगोः अस्तोतुः—इति सा०। ३. सायणस्तु ‘अगोः अयिः’ इति विच्छिद्य ‘अयिः अरिः’ व्यत्ययेन यकारः, इति व्याचष्टे। तत्तु पदकारविरुद्धत्वात् चिन्त्यम्।