Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 224

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क꣢दु꣣ प्र꣡चे꣢तसे म꣣हे꣡ वचो꣢꣯ दे꣣वा꣡य꣢ शस्यते । त꣡दिध्य꣢꣯स्य꣣ व꣡र्ध꣢नम् ॥२२४

क꣢त् । उ꣣ । प्र꣡चे꣢꣯तसे । प्र । चे꣣तसे । महे꣢ । व꣡चः꣢꣯ । दे꣣वा꣡य꣢ । श꣣स्यते । त꣢त् । इत् । हि । अ꣣स्य । व꣡र्ध꣢꣯नम् ॥२२४॥

Mantra without Swara
कदु प्रचेतसे महे वचो देवाय शस्यते । तदिध्यस्य वर्धनम् ॥२२४

कत् । उ । प्रचेतसे । प्र । चेतसे । महे । वचः । देवाय । शस्यते । तत् । इत् । हि । अस्य । वर्धनम् ॥२२४॥

Samveda - Mantra Number : 224
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(कत्१ उ) किमर्थं खलु (प्रचेतसे) प्रकृष्टं चेतो ज्ञानं चित्तं वा यस्य तस्मै, प्रकृष्टज्ञानाय प्रकृष्टचित्ताय वा, (महे) महते, (देवाय) दिव्यगुणकर्मस्वभावाय इन्द्राय परमेश्वराय (वचः) स्तुतिवचनं (शस्यते) उच्चार्यते ? इति प्रश्नः। तदुत्तरं दीयते—(हि) यस्मात् (तत्) तत् स्तुतिवचनम् (इत्) निश्चयेन (अस्य२) स्तोतुर्यजमानस्य (वर्द्धनम्) वृद्धिकरं भवति ॥२॥
Essence
परमेश्वराय यानि स्तुतिवचांस्युदीर्यन्ते तैः स्तोतुरेव वृद्धिरुन्नतिश्च भवतीति विज्ञेयम् ॥२॥
Subject
अथ कुतोऽस्माभिर्देवस्य परमात्मनः स्तुतिः कार्येत्युच्यते।
Footnote
१. कत्। किमः उत्तरस्याः पञ्चम्याः अत् आदेशः। कस्मात् कारणात्। उ इति पादपूरणः—इति वि०। २. अस्य देवस्य वर्धनं वृद्धिकरं भवति—इति भ०। अस्य यजमानस्य—इति सा०।