Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 221

1875 Mantra
Devata- मरुतः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣢दु꣣ त्ये꣢ सू꣣न꣢वो꣣ गि꣢रः꣣ का꣡ष्ठा꣢ य꣣ज्ञे꣡ष्व꣢त्नत । वा꣣श्रा꣡ अ꣢भि꣣ज्ञु꣡ यात꣢꣯वे ॥२२१॥

उ꣢त् । उ꣣ । त्ये꣢ । सू꣣न꣡वः꣢ । गि꣡रः꣢꣯ । का꣡ष्ठाः꣢꣯ । य꣣ज्ञे꣡षु꣢ । अ꣣त्नत । वाश्राः꣢ । अ꣣भिज्ञु꣢ । अ꣣भि । ज्ञु꣢ । या꣡त꣢꣯वे ॥२२१॥

Mantra without Swara
उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत । वाश्रा अभिज्ञु यातवे ॥

उत् । उ । त्ये । सूनवः । गिरः । काष्ठाः । यज्ञेषु । अत्नत । वाश्राः । अभिज्ञु । अभि । ज्ञु । यातवे ॥२२१॥

Samveda - Mantra Number : 221
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—वायुपरः। (सूनवः) इन्द्राख्यस्य परमेश्वरस्य सूर्यस्य वा पुत्राः (त्ये) ते मरुतः पवनाः (यज्ञेषु) वृष्टिरूपेषु अध्वरेषु, यदा (गिरः२) वाचः, स्तनयित्नुशब्दान् (काष्ठाः) मेघस्थाः अपः च। आपोऽपि काष्ठा उच्यन्ते। निरु० २।१५। (उद् अत्नत) उत्तन्वन्ति, स्तनयित्नुगर्जनशब्दान् उत्पादयन्ति मेघजलानि चालयन्ति चेत्यर्थः। ‘अत्नत अतनिषत, निरु० १२।३४।’ तनु विस्तारे, लडर्थे लुङ्, विकरणस्य लुक् छान्दसः। ‘तनिपत्योश्छन्दसि’ अ० ६।४।९९ अनेनोपधालोपः। तदा (वाश्राः) वाशन्ते शब्दायन्ते इति वाश्राः। वाशृ शब्दे धातोरौणादिको रक् प्रत्ययः। रिमझिमशब्दसहिताः आपः इत्यर्थः। वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु। अथ० ४।१५।१ इति वचनात्। (अभिज्ञु३) पृथिव्यभिमुखम् (यातवे) यातुं प्रक्रमन्ते। या प्रापणे धातोस्तुमर्थे तवेन् प्रत्ययः। नित्त्वादाद्युदात्तत्वम् ॥ अथ द्वितीयः—सैनिकपक्षे। इन्द्रस्य सेनापतेः (सूनवः) पुत्रा इव (त्ये) ते मरुतः सैनिकाः (यज्ञेषु) सङ्गमनीयेषु संग्रामेषु (गिरः) जयघोषान् (उद् अत्नत) आकाशे विस्तारयन्ति, (काष्ठाः) दिशश्च। काष्ठा दिशो भवन्ति क्रान्त्वा स्थिता भवन्ति। निरु० २।१५। (उत् अत्नत) उल्लङ्घयन्ति। (अभिज्ञु) सैनिकपद्धत्या जान्वभिमुखम् (यातवे) प्रयाणाय, तेषां कृते (वाश्राः) वाशृ शब्दे, उत्साहवर्धकाः शब्दाः भवन्तीति शेषः। स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ ऋ० १।३९।२। इत्यादिवर्णनानि मरुतां सैनिकत्वं सूचयन्ति ॥ अथ तृतीयः—अध्यात्मपरः। इन्द्रेण जीवात्मना संबद्धाः (त्ये) ते (गिरः) शब्दोच्चारणसाधनीभूताः। गीर्यन्ते शब्दा एभिस्ते (गिरः)(सूनवः४) प्रेरकाः प्राणाः। षू प्रेरणे धातोः ‘सुवः कित्’ उ० ३।३५ इति नु प्रत्ययो ज्ञेयः। (यज्ञेषु) योगाभ्यासरूपेषु, यदा (काष्ठाः) चित्तदिशः (उत् अत्नत उ) ऊर्ध्वं विस्तारयन्ति खलु तदा (अभिज्ञु) जानुनी आकुञ्च्य पद्मासनबन्धपूर्वकम् (यातवे) मोक्षमधिगन्तुं तेषां चित्ते (वाश्राः) धर्ममेघसमाधिजाः वर्षाः भवन्ति। यथोक्तं पातञ्जले योगशास्त्रे “प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिरिति” ४।२९ ॥८॥५ अत्र श्लेषालङ्कारः ॥८॥
Essence
पवना यथा गगने स्तनयित्नुशब्दं कुर्वन्ति, तथैव सेनापतेरधीना योद्धारः संग्रामयज्ञे जयघोषैः सर्वा दिश आपूरयेयुः। यथा पवना भूमौ मेघस्थानि जलानि वर्षन्ति, तथैव प्राणा योगिनश्चित्तभूमौ धर्ममेघसमाधिं वर्षेयुः ॥८॥
Subject
अथेन्द्राधीना मरुतो वर्ण्यन्ते।
Footnote
१. ऋ० १।३७।१०, ‘यज्ञेष्वत्नत’ इत्यत्र ‘अज्मष्वत्नत’ इति पाठः। मरुतो देवताः। कण्वो घौरः ऋषिः। २. गिरः गर्जितलक्षणा वाचः। काष्ठाश्च वृष्टिलक्षणा आपः—इति वि०। ३. अभिज्ञु अभिज्मां पृथिवीमभि—इति भ०। ४. सूनवः प्रेरका विश्वस्य। षू प्रेरणे—इति भ०। ५. दयानन्दर्षिणा ऋग्भाष्ये मन्त्रोऽयं वाचकलुप्तोपमामाश्रित्य वायूनामुदाहरणेन राजप्रजाजनविषये व्याख्यातः।