Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 220

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनो जमदग्निर्वा Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ नो꣢ मित्रावरुणा घृ꣣तै꣡र्गव्यू꣢꣯तिमुक्षतम् । म꣢ध्वा꣣ र꣡जा꣢ꣳसि सुक्रतू ॥२२०॥

आ꣢ । नः꣣ । मित्रा । मि । त्रा । वरुणा । घृतैः꣢ । ग꣡व्यू꣢꣯तिम् । गो । यू꣣तिम् । उक्षतम् । म꣡ध्वा꣢꣯ । र꣡जाँ꣢꣯सि । सु꣣क्रतू । सु । क्रतूइ꣡ति꣢ ॥२२०॥

Mantra without Swara
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥

आ । नः । मित्रा । मि । त्रा । वरुणा । घृतैः । गव्यूतिम् । गो । यूतिम् । उक्षतम् । मध्वा । रजाँसि । सुक्रतू । सु । क्रतूइति ॥२२०॥

Samveda - Mantra Number : 220
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्रेण परमात्मना नृपतिना वाऽधिष्ठितौ२ (मित्रावरुणौ) ब्राह्मणक्षत्रियौ। ब्रह्मैव मित्रः। श० ४।१।४।१, क्षत्रं वै वरुणः। श० २।५।२।६। युवाम् (नः) अस्माकम् (गव्यूतिम्३) राष्ट्रभूमिम्। गवां धेनूनां यूतिः उचितभोजनादिना सत्कारः यत्र सा गव्यूतिः। यौतिः अर्चतिकर्मा। निघं० ३।१४। ‘गोर्यूतौ छन्दस्युपसंख्यानम्। अ० ६।१।७९ वा०’ इत्यवादेशः। यूतिः इति ‘ऊतियूतिजूति। अ० ३।३।९७’ इति क्तिन्प्रत्ययान्तो निपातः। (घृतैः) घृतादिपदार्थैः (आ उक्षतम्) आसिञ्चतम्, समृद्धं कुरुतम् इति भावः। उक्ष सेचने, भ्वादिः। हे (सुक्रतू) सुज्ञानकर्माणौ ! युवाम् (मध्वा) विद्यामधुना सह (रजांसि) क्षात्रतेजांसि, उत्पादयतम् इति शेषः। ज्योती रज उच्यते इति निरुक्तम्।४।१९। ॥७॥४
Essence
परमात्मनः प्रेरणां नृपतेश्च साहाय्यं प्राप्य ब्राह्मणक्षत्रियौ राष्ट्रस्य प्रजासु समृद्धिं विद्यां, वीरतां, क्षात्रं तेजश्च यदि जनयतस्तर्हि राष्ट्रं परममुत्कर्षं प्राप्तुमर्हति ॥७॥
Subject
अथेन्द्राधिष्ठितौ ब्राह्मणक्षत्रियौ सम्बोधयति।
Footnote
१. ऋ० ३।६२।१६, य० २१।८ उभयत्र मित्रावरुणौ देवते, यजुषि ‘विश्वामित्र’ ऋषिः। साम० ६६३। २. इन्द्रदेवताकत्वाद् ऋचः एतद् योजनीयम्। ३. गावो यत्र चरन्ति सा गव्यूतिरुच्यते—इति वि०। गोसञ्चारदेशम् इति भ०। गवां मार्गं गोनिवासस्थानम्—इति सा०। ४. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्येऽध्यापकोपदेशकविषये यजुर्भाष्ये च शिल्पविषये व्याख्यातः।