Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 22

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣ग्नि꣢स्ति꣣ग्मे꣡न꣢ शो꣣चि꣢षा꣣ य꣢ꣳ स꣣द्वि꣢श्वं꣣ न्या꣢३꣱त्रि꣡ण꣢म् । अ꣣ग्नि꣡र्नो꣢ वꣳसते र꣣यि꣢म् ॥२२॥

अ꣣ग्निः꣢ । ति꣣ग्मे꣡न꣢ । शो꣣चि꣡षा꣢ । यँ꣡ऽस꣢꣯त् । वि꣡श्व꣢꣯म् । नि । अ꣣त्रि꣡ण꣢म् । अ꣣ग्निः꣢ । नः꣣ । वँऽसते । र꣣यि꣢म् ॥२२॥

Mantra without Swara
अग्निस्तिग्मेन शोचिषा यꣳ सद्विश्वं न्या३त्रिणम् । अग्निर्नो वꣳसते रयिम् ॥

अग्निः । तिग्मेन । शोचिषा । यँऽसत् । विश्वम् । नि । अत्रिणम् । अग्निः । नः । वँऽसते । रयिम् ॥२२॥

Samveda - Mantra Number : 22
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) तेजोमयः परमात्मा (तिग्मेन) तीक्ष्णेन (शोचिषा) तेजसा (विश्वम्) समस्तम् (अत्रिणम्२) भक्षकं कामक्रोधादिकमन्तःशत्रुवर्गं, चौरलुण्ठकादिकं सामाजिकञ्च रिपुवर्गम्। अत्ति भक्षयति हिनस्ति यः सोऽत्री। अद् भक्षणे धातोः अदेस्त्रिनिश्च उ० ४।६९ इति त्रिनिः। पाप्मानोऽत्रिणः इति ष० ब्रा० ३।१। (नियंसत्३) नियच्छतु। निपूर्वात् यम उपरमे धातोः विध्यर्थे लेटि सिब्बहुलं लेटि अ० ३।१।३४ इति सिपि रूपम्। (अग्निः) स एवाग्निपदवाच्यः परमात्मा (नः) अस्मभ्यम् (रयिम्) लौकिकं धनं हिरण्यरजतप्रजापश्वादिकम् आध्यात्मिकञ्च धनं सत्याहिंसादि (वंसते४) विभज्य ददातु। वन संभक्तौ धातोर्लेटि सिबागमः ॥२॥ श्लेषेण भौतिकाग्निपक्षेऽपि योजनीयम् ॥२॥
Essence
यथा पार्थिवोऽग्निर्विद्युदग्निर्वा तिग्मेन शोचिषा प्राप्तं वस्तु दहति, शिल्पादिकर्मसु योजितश्च धनं प्रयच्छति, तथैव परमात्माग्निरुपासकानामान्तरान् बाह्याँश्च सपत्नान् निगृह्णाति, तत्कृते च सांसारिकीमाध्यात्मिकीञ्च संपदं वितरति ॥२॥५
Subject
परमात्मा स्तोत्रे किं फलं प्रयच्छेदित्याह।
Footnote
१. ऋ० ६।१६।२८, य० १७।१६ उभयत्र यंसद्, वंसते इत्यत्र क्रमेण यासद्, वनते इति पाठः। २. अत्रिणम्—अदनशीलं राक्षसम्। रक्षांसि वै पाप्मात्रिणः (ऐ० ब्रा० २।२) इति ह्यैतरेयकम्। न्यत्रिणमित्यत्र स्वरितस्य कम्पः, न तु दीर्घः—इति भ०। ३. नियंसत् नियच्छतु हिनस्तु इत्यर्थः—इति भ०। ४. वंसतिरत्र दानार्थः—इति भ०। वंसते ददातु—इति सा०। ५. दयानन्दर्षिणा मन्त्रोऽयं वाचकलुप्तोपमाश्रयेण ऋग्भाष्ये राजपरो, यजुर्भाष्ये च पावकपरो विद्युत्परो विद्वत्परश्च व्याख्यातः।