Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 219

1875 Mantra
Devata- अश्विनौ, मित्रावरुणौ Rishi- ब्रह्मातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
दू꣣रा꣢दि꣣हे꣢व꣣ य꣢त्स꣣तो꣢ऽरु꣣ण꣢प्सु꣣र꣡शि꣢श्वितत् । वि꣢ भा꣣नुं꣢ वि꣣श्व꣡था꣢तनत् ॥२१९॥

दू꣣रा꣢त् । दुः꣣ । आ꣢त् । इ꣣ह꣢ । इ꣣व । य꣢त् । स꣣तः꣢ । अ꣣रुण꣡प्सुः꣢ । अ꣡शि꣢꣯श्वितत् । वि । भा꣣नु꣢म् । वि꣣श्व꣡था꣢ । अ꣣तनत् । ॥२१९॥

Mantra without Swara
दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् । वि भानुं विश्वथातनत् ॥

दूरात् । दुः । आत् । इह । इव । यत् । सतः । अरुणप्सुः । अशिश्वितत् । वि । भानुम् । विश्वथा । अतनत् । ॥२१९॥

Samveda - Mantra Number : 219
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—खगोलपरः। (अरुणप्सुः) अरुणः आरोचमानः प्सुः रूपं यस्य सोऽरुणप्सुः इन्द्रः सूर्यः। अरुणः आरोचनः। निरु० ५।२१। प्सुः इति रूपनाम। निघं० ३।७। (यत्) यदा (दूरात्) खगोलस्थाद् दूरवर्तिप्रदेशात्, मङ्गलबुधचन्द्रादीन् ग्रहोपग्रहान् (इह इव सतः) इह समीपे इव विद्यमानान् कुर्वन् (अशिश्वितत्) आरोचयति। श्विता वर्णे धातोर्ण्यन्तात् लुङि चङि रूपम्। यच्छब्दयोगात् ‘तिङ्ङतिङः’ अ० ८।१।२८ इति प्राप्तस्य निघातस्य ‘यद्वृत्तान्नित्यम्। अ० ८।१।६६’ इति प्रतिषेधः। तदा (भानुम्) निजं प्रकाशम् (विश्वथा) बहुप्रकारेण। अत्र ‘प्रकारवचने थाल्। अ० ५।३।२३’ इति थाल् प्रत्ययः, न तु ‘प्रत्नपूर्वविश्वेमात्थाल् छन्दसि। अ० ५।३।१११’ इत्यस्य प्रवृत्तिः, इवार्थाभावात्। (वि-अतनत्) वितनोति विस्तृणाति। तनु विस्तारे स्वादिः, वेदे भ्वादिरपि दृश्यते ॥ अथ द्वितीयः—अध्यात्मपरः। (अरुणप्सुः) आरोचमानरूपः इन्द्रः परमेश्वरः (यत्) यदा (दूरात्) व्यवहिताद् विप्रकृष्टाद् वा प्रदेशात्, पदार्थान् (इह इव सतः) अत्र समीप इव विद्यमानान् कुर्वन् (अशिश्वितत्) आरोचयति, योगिनो मानसं प्रकाशयति, तदा (भानुम्) भासमानं जीवात्मानम् (विश्वथा) सर्वथा (वि-अतनत्) योगैश्वर्यप्रापणेन विस्तारयति व्यापकज्ञानयुक्तं करोतीत्यर्थः ॥६॥ योगाभ्यासिनो जनस्य परमात्मप्रदत्तेन दिव्यालोकेन सूक्ष्मव्यवहितविप्रकृष्टानां पदार्थानां, दूरस्थानां ताराव्यूहानां, ध्रुवादिनक्षत्राणां च समीपस्थवस्तुवद् हस्तामलसाक्षात्कारो भवितुमर्हतीति योगदर्शने विभूतिपादे महर्षिः पतञ्जलिराह३ ॥ अत्र श्लेषालङ्कारः। ‘दूरादिहेव यत् सतः’ इत्यत्र चोत्प्रेक्षा ॥६॥
Essence
आरोचमानरूपः सूर्यो यदा स्वप्रकाशं मङ्गलबुधबृहस्पतिचन्द्रादिषु ग्रहोपग्रहेषु प्रक्षिपति तदा तत्प्रकाशेन ते प्रकाशिता जायन्ते, प्रकाशश्चास्मच्चक्षुषोः प्रतिफलितः सन् दूरस्थानपि तान्, समीपवर्तिन इव दर्शयति। तथैव योगाभ्यासेन योगिनां मनःसु परमात्मनो दिव्यालोकः प्रतिफलितः सन् तेषु तां शक्तिं जनयति यया ते सूक्ष्मव्यवहितविप्रकृष्टानपि पदार्थान् साक्षादन्तिकस्थानिव पश्यन्ति ॥६॥
Subject
अथ सूर्यप्रकाशेनाध्यात्मप्रकाशेन च दूरस्था अपि पदार्था अन्तिकस्था इव दृश्यन्त इत्याह।
Footnote
१. ऋ० ८।५।१ अश्विनौ देवते। ‘सतोऽरुणप्सु’ ‘विश्वथा’ इत्यत्र ‘सत्यरुणप्सु’ ‘विश्वधा’ इति पाठः। २. माधवभरतस्वामिसायणैः सर्वैरेवास्या ऋचो व्याख्याने उषसः प्रक्रम्य अश्विनोरपसंहृतम्। ऋग्वेदेऽस्या अश्विनौ देवते निर्दिष्टे, ‘सतः’ इत्यस्य स्थाने च ‘सती’ इति स्त्रीलिङ्गः पाठः। तत्र तु ‘दूरादपि इहेव सती अरुणप्सुः उषाः अशिश्विवत्’ इति व्याख्यानमुचितम्। अत्र तु इन्द्रदेवताकत्वाद् ऋचः तद्व्याख्यानं न समञ्जसमिति दिक्। ३. द्रष्टव्यम्—योगदर्शनम् ३।१६, १९, २५-२८, ३३, ४१। योगसिद्धीनां विषये महर्षिदयानन्दस्य विचाराः य० १७।६७, ७१ भाष्ये, पूनाप्रवचनस्य ११शप्रवचने च द्रष्टव्याः। तथा हि—‘यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदा अणिमादयः सिद्धयः प्रादुर्भवन्ति। ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा’ इति य० १७।६७ भाष्ये भावार्थः। “योगी विभूति सिद्ध करता है, यह योगशास्त्र में लिखा है। अणिमा आदि विभूतियाँ हैं। ये योगी के चित्त में पैदा होती हैं। सांसारिक लोग जो यह मानते हैं कि योगी के शरीर में पैदा होती हैं, वह ठीक नहीं है।” इति च पूनाप्रवचनम्।