Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 218

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ऋ꣣जुनीती꣢ नो꣣ व꣡रु꣢णो मि꣣त्रो꣡ न꣢यति वि꣣द्वा꣢न् । अ꣣र्यमा꣢ दे꣣वैः꣢ स꣣जो꣡षाः꣢ ॥२१८॥

ऋ꣣जुनी꣢ती । ऋ꣣जु । नीती꣢ । नः꣣ । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न꣣यति । विद्वा꣢न् । अ꣣र्यमा꣢ । दे꣣वैः꣢ । स꣣जो꣡षाः । स꣣ । जो꣡षाः꣢꣯ ॥२१८॥

Mantra without Swara
ऋजुनीती नो वरुणो मित्रो नयति विद्वान् । अर्यमा देवैः सजोषाः ॥

ऋजुनीती । ऋजु । नीती । नः । वरुणः । मित्रः । मि । त्रः । नयति । विद्वान् । अर्यमा । देवैः । सजोषाः । स । जोषाः ॥२१८॥

Samveda - Mantra Number : 218
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। हे इन्द्रपरमात्मन् ! (देवैः) चक्षुरादिभिरिन्द्रियैः२। दीव्यन्ति व्यवहरन्ति स्वस्वविषयेष्विति देवाः इन्द्रियाणि तैः। (सजोषाः) सप्रीतिः। जुषी प्रीतिसेवनयोः धातोः औणादिकोऽसुन् प्रत्ययः। जोषसा सह वर्तते इति सजोषाः। समासे ‘वोपसर्जनस्य’ अ० ६।३।८२ इति सहस्य सः। (विद्वान्) ज्ञानवान् (वरुणः) पापेभ्यो निवारणकर्त्ता जीवात्मा, (मित्रः) प्राणः, (अर्यमा) मनः (नः) अस्मान् (ऋजुनीती) ऋजुनीत्या सरलेन धर्ममार्गेण। ‘सुपां सुलुक्पूर्वसवर्णदीर्घ०’ अ० ७।१।३९ इति तृतीयैकवचने पूर्वसवर्णदीर्घः। (नयति) नयतु।३ णीञ् प्रापणे धातोर्विध्यर्थे लेटि ‘लेटोऽडाटौ’ अ० ३।४।९४ इत्यडागमः ॥ अथ द्वितीयः—राष्ट्रपरः। हे इन्द्र राजन् ! (देवैः) स्वस्वाधिकारेषु व्यवहरद्भिः राजपुरुषैः (सजोषाः) सप्रीतिः, आनुकूल्यं भजमानः इत्यर्थः (विद्वान्) विपश्चिद् विद्यासभाध्यक्षः, (वरुणः) शत्रुनिवारकः शस्त्रास्त्रपाणिः सेनाध्यक्षः, (मित्रः) कदाचाररूपाद् मरणात् त्राणकर्त्ता धर्मसभाध्यक्षः, मित्रः प्रमीतेस्त्रायते। निरु० १०।२१।४ (अर्यमा) न्यायसभाध्यक्षः (नः) अस्मान् प्रजाजनान् (ऋजुनीती) ऋजुना धर्ममार्गेण (नयति) नयतु ॥ अथ तृतीयः—विद्वत्परः। (देवैः) विद्यया दीप्तैः विद्याव्रतदानशीलैः सर्वैः अध्यापकैः (सजोषाः) सामञ्जस्यं भजमानः (वरुणः) श्रेष्ठगुणकर्मस्वभावः, छात्रैराचार्यत्वेन वृतः छात्राणां शिष्यत्वेन वर्ता वा, (मित्रः) पापरूपात् मरणात् त्राणकर्ता, (अर्यमा) न्यायकारी (विद्वान्) आप्तविद्यः आचार्यः (नः) अस्मान् शिष्यान् (ऋजुनीती) ऋजुः सरला शुद्धा चासौ विद्यानीतिः व्रतनीतिश्च तया (नयति) नयतु। अस्मान् सुयोग्यान् विद्याव्रतस्नातकान् करोतु इत्यर्थः ॥५॥५ अत्र श्लेषालङ्कारः ॥५॥
Essence
शरीरे विद्यमाना जीवात्मप्राणमनःप्रभृतयो देवाः परमात्मनः सकाशाद् बलं प्राप्य मनुष्यान् धर्ममार्गेण नयन्ति। तथैव राष्ट्रे विद्याधर्मन्यायसभानामध्यक्षाः सेनाध्यक्षश्च प्रजाजनान् धर्ममार्गे नयन्तु। किञ्च गुरुकुलवासिभिः सुयोग्यैरध्यापकैः समन्वितः श्रेष्ठगुणकर्मस्वभाव आचार्योऽपि शिष्यान् धर्ममार्गे नयतु ॥५॥
Subject
इन्द्राधिष्ठिता वरुणमित्रादयः—अस्मान् सरलमार्गेण नयेयुरित्याह।
Footnote
१. ऋ० १।९०।१, ‘नयति’ इत्यत्र ‘नयतु’ इति पाठः। विश्वेदेवाः देवता। २. देवाः स्वस्वविषयप्रकाशकानि श्रोत्रादीनीन्द्रियाणि इति ऋ० ६।९।५ भाष्ये द०। ३. नयतीति पञ्चमलकारान्तम्, नयतु—इति भ०। नयति अभिमतं फलं प्रापयति—इति सा०। ४. पदकारेणापि ‘मि-त्रः’ इति विभजनात् ‘प्रमीतेः त्रायते यः सः’ इत्येवार्थः सूचितः। ५. दयानन्दर्षिणा ऋग्भाष्येऽस्य मन्त्रस्य वाचकलुप्तोपमालङ्कारमाश्रित्य परमेश्वरार्थेन सह विद्वत्परोऽर्थः प्रकाशितः।