Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 217

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
बृ꣣ब꣡दु꣢क्थꣳ हवामहे सृ꣣प्र꣡क꣢रस्नमू꣣त꣡ये꣢ । सा꣡धः꣢ कृ꣣ण्व꣢न्त꣣म꣡व꣢से ॥२१७॥

बृ꣣ब꣡दु꣢क्थम् । बृ꣣ब꣢त् । उ꣣क्थम् । हवामहे । सृप्र꣡क꣢रस्नम् । सृ꣣प्र꣢ । क꣣रस्नम् । ऊत꣡ये꣢ । सा꣡धः꣢꣯ । कृ꣣ण्व꣡न्त꣢म् । अ꣡व꣢꣯से ॥२१७॥

Mantra without Swara
बृबदुक्थꣳ हवामहे सृप्रकरस्नमूतये । साधः कृण्वन्तमवसे ॥

बृबदुक्थम् । बृबत् । उक्थम् । हवामहे । सृप्रकरस्नम् । सृप्र । करस्नम् । ऊतये । साधः । कृण्वन्तम् । अवसे ॥२१७॥

Samveda - Mantra Number : 217
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। वयम् (बृबदुक्थम्) प्रशंसनीयकीर्तिम्। बृबदुक्थो महदुक्थो, वक्तव्यमस्मा उक्थमिति वा। निरु० ६।४। (सृप्रकरस्नम्) व्यापकेषु कर्मसु निष्णातम्। सर्पन्ति गच्छन्ति व्याप्नुवन्तीति सृप्राः, सृप्लृ गतौ धातोः ‘स्फायितञ्चि०’ उ० २।१३ इति रक्। क्रियन्ते इति कराः कर्माणि। सृप्रेषु सृप्तेषु विस्तीर्णेषु करेषु कर्मसु स्नातीति तम्। किञ्च (अवसे) प्रगतये। अव रक्षणगत्यादिषु, धातोः ‘तुमर्थे सेसेनसेऽसेन्’ अ० ३।४।९ इति तुमर्थे असेन् प्रत्ययः। नित्त्वात् ‘ञ्नित्यादिर्नित्यम्’ अ० ६।१।१९७ इत्याद्युदात्तत्वम्। (साधः२) सूर्यवाय्वग्निरजतसुवर्णादिरूपं साधनसमूहम्। साध संसिद्धौ धातोः ‘सर्वधातुभ्योऽसुन्’ उ० ४।१९० इत्यसुन्। (कृण्वन्तम्) उपस्थापयन्तम् इन्द्रं परमात्मानम्। कृवि हिंसाकरणयोः स्वादिः, शतरि रूपम्। (ऊतये) रक्षणाय (हवामहे) आह्वयामः ॥ अथ द्वितीयः—राजपरः। वयम् प्रजाजनाः (बृबदुक्थम्) प्रशंसनीयकीर्तिम् (सृप्रकरस्नम्) आजानुबाहुम् यद्वा शत्रुनिग्रहप्रजापालनादिकर्मसु व्याप्तभुजम्। सृप्रौ आजानुलम्बिनौ सत्कर्मसु व्यापनशीलौ वा करस्नौ बाहू यस्य तम्। सृप्रः सर्पणात्। करस्नौ बाहू कर्मणां प्रस्नातारौ। निरु० ६।१७। किञ्च (अवसे) प्रजानां प्रगतये (साधः) शस्त्रास्त्रज्ञानविज्ञानचिकित्सादिसिद्धिम् (कृण्वन्तम्) कुर्वन्तम् इन्द्रं राजानम् (ऊतये) सुरक्षायै (हवामहे) आह्वयामः ॥४॥ अत्र श्लेषालङ्कारः।
Essence
पुरुषार्थिनो जनाः सर्वशक्तिमतः परमेश्वरस्य नृपतेश्च साहाय्येनैव स्वात्मनीनां सामाजिकीं च प्रगतिं कर्त्तुं पारयन्तीति सर्वैः तयोः साहाय्यं प्रार्थनीयम् ॥४॥
Subject
अथ वयं स्वरक्षायै कीदृशं परमात्मानं राजानं चाह्वयेमेत्याह।
Footnote
१. ऋ० ८।३२।१०, ‘साधः’ इत्यत्रः ‘साधु’ इति पाठः। २. विवरणकृद्भरतस्वामिभ्यां तु ऋग्वेदवत् ‘साधु’ इति पाठं मत्वा व्याख्यातम्। ‘साधः साधकं धनं कृण्वन्तं प्रयच्छन्तम्’—इति सा०।