Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 216

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ बु꣣न्दं꣡ वृ꣢त्र꣣हा꣡ द꣢दे जा꣣तः꣡ पृ꣢च्छा꣣द्वि꣢ मा꣣त꣡र꣢म् । क꣢ उ꣣ग्राः꣡ के ह꣢꣯ शृण्विरे ॥२१६॥

आ꣢ । बु꣣न्द꣢म् । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । द꣣दे । जातः꣢ । पृ꣣च्छात् । वि꣢ । मा꣣त꣡र꣢म् । के । उ꣣ग्राः꣢ । के । ह꣣ । शृण्विरे ॥२१६॥

Mantra without Swara
आ बुन्दं वृत्रहा ददे जातः पृच्छाद्वि मातरम् । क उग्राः के ह शृण्विरे ॥

आ । बुन्दम् । वृत्रहा । वृत्र । हा । ददे । जातः । पृच्छात् । वि । मातरम् । के । उग्राः । के । ह । शृण्विरे ॥२१६॥

Samveda - Mantra Number : 216
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—जीवात्मपरः ! (जातः) मानवदेहे गृहीतजन्मा, (वृत्रहा) दुष्टहननक्षमः जीवः (बुन्दम्) इषुम्, शस्त्रास्त्रसमूहम्। बुन्दः इषुर्भवति, भिन्दो वा भयदो वा भासमानो द्रवतीति वा। निरु० ६।३३। (आददे) आददीत। आङ्पूर्वाद् डुदाञ् दाने धातोः लिङर्थे लिट्। किञ्च (मातरम्) स्वकीयां जननीम् (वि पृच्छात्) विशेषतः पृच्छेत्। पृच्छ धातोर्लेटि ‘लेटोऽडाटौ। अ० ३।४।९४’ इत्याडागमः। यत् हे मातः ! (के) के जनाः (उग्राः) दुष्टाः सन्ति, (के ह) के च शृण्विरे सद्गुणैः सत्कर्मभिश्च श्रूयन्ते, प्रख्यातकीर्तयः सज्जनाः सन्तीति त्वं ब्रूहि, येनाहं दुष्टान् दण्डयेयं सज्जनांश्च मानयेयम् ॥ अथ द्वितीयः—मनःपरः। (जातः) वेगादिसामर्थ्ये प्रसिद्धः (वृत्रहा) पापहन्ता इन्द्रः सद्विचाररूपपरमैश्वर्ययुक्तं मनः। मन एवेन्द्रः। श० १२।९।१।१३। यन्मनः स इन्द्रः। गो० उ० ४।११। (बुन्दम्) शिवसंकल्परूपम् इषुम् (आददे) गृह्णीयात्, किं च (मातरम्) सदसद्विवेकनिर्मात्रीं बुद्धिम् (वि पृच्छात्) विशेषेण पृच्छेत्, यत् (के) कतमे विचाराः (उग्राः) उत्कटपापमयाः सन्ति, (के ह) कतमे च (शृण्विरे) पुण्येन प्रख्याताः सन्तीति ब्रूहि, येनाहं पापात्मकान् विचारान् खण्डयेयम्, पुण्यात्मकांश्च मण्डयेयम् ॥ अथ तृतीयः—राजप्रजापरः। (जातः) उत्पन्नः, प्रजाभिः राजपदेऽभिषिक्तः, (वृत्रहा) राष्ट्रस्याभ्यन्तरान्बाह्यांश्च शत्रून् हन्तुं समर्थो राजा (बुन्दम्२) इषुं, शासनदण्डम् शस्त्रास्त्रसमूहं वेत्यर्थः, (आददे) गृह्णीयात्, (मातरम्) राज्ञो निर्मात्रीम्, जनतां (वि पृच्छात्) विशेषेण पृच्छेत्, यत् (के) के जनाः, (उग्राः) प्रचण्डकोपाः शत्रवः सन्ति, ये युष्मानुद्वेजयन्ति, (के ह) के च (शृण्विरे३) श्रूयन्ते सद्गुणसत्कर्मादिकारणात् प्राप्तख्यातयः सन्ति, ये युष्माभिः सह मित्रवदाचरन्तीति ब्रूहि, येनाहं शत्रून् दण्डयेयं मित्राणि च सत्कुर्याम् ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
धृतमानवशरीराणां वीराणां नृपतेश्च कर्तव्यमेतदस्ति यत् ते दुष्टान् दण्डयित्वा पुण्यात्मनः सत्कुर्युः। मनोबुद्धिसाहाय्येन च सर्वैः पापानि निरस्य पुण्यानि प्रसारणीयानि ॥३॥
Subject
अथेन्द्रनाम्ना जीवात्मनो मनसः परमात्मनश्च कृत्यं वर्णयति।
Footnote
१. ऋ० ८।४५।४, ‘पृच्छाद्’ इत्यत्र ‘पृच्छद्’ इति पाठः। २. बुन्दम् इषुम्—इति वि०। बुन्दम्, वृन्देन समानार्थः। दृढं वज्रमित्यर्थः—इति भ०। ३. शृण्विरे श्रूयन्ते विख्याताः—इति वि–०। श्रूयन्ते बलादिभिः—इति भ०। वीर्येण विश्रुताः—इति सा०। (शृण्विरे) श्रूयन्ते। अत्र श्रु धातोः ‘छन्दसि लुङ्लङ्लिटः। अ० ३।४।६’ इति लडर्थे लिट्। ‘छन्दस्युभयथा। अ० ३।४।११७’ इति सार्वधातुकत्वेन श्नुविकरणः, आर्धधातुकत्वाद् यगभावः। विकरणव्यवहितत्वाद् द्वित्वं च न भवति—इति ऋ० १।१५।८ भाष्ये द०।