Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 214

1875 Mantra
Devata- इन्द्रः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ व꣣ इ꣢न्द्रं꣣ कृ꣢विं꣣ य꣡था꣢ वाज꣣य꣡न्तः꣢ श꣣त꣡क्र꣢तुम् । म꣡ꣳहि꣢ष्ठꣳ सिञ्च꣣ इ꣡न्दु꣢भिः ॥२१४॥

आ꣢ । वः꣣ । इ꣢न्द्र꣢꣯म् । कृ꣡वि꣢꣯म् । य꣡था꣢꣯ । वा꣣जय꣡न्तः꣢ । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । मँ꣡हि꣢꣯ष्ठम् । सि꣣ञ्चे । इ꣡न्दु꣢꣯भिः । ॥२१४॥

Mantra without Swara
आ व इन्द्रं कृविं यथा वाजयन्तः शतक्रतुम् । मꣳहिष्ठꣳ सिञ्च इन्दुभिः ॥

आ । वः । इन्द्रम् । कृविम् । यथा । वाजयन्तः । शतक्रतुम् । शत । क्रतुम् । मँहिष्ठम् । सिञ्चे । इन्दुभिः । ॥२१४॥

Samveda - Mantra Number : 214
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (वाजयन्तः) वाजं बलम् विज्ञानम् ऐश्वर्यं वा आत्मनः कामयमानाः (वः) यूयम् (शतक्रतुम्) बहुप्रज्ञं बहुकर्माणं वा (इन्द्रम्) परमात्मानम् (इन्दुभिः) भक्तिरूपैः सोमरसैः (आ) आसिञ्चत। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। यथा (वाजयन्तः२) अन्नोत्पत्तिं कामयमानाः कर्षकाः। वाज इत्यन्ननाम। निघं० २।७। (कृविम्३) कृत्रिमं कूपम्। कृविरिति कूपनाम। निघं० ३।१३। (इन्दुभिः) उदकैः सिञ्चन्ति तद्वत्। इन्दुरित्युदकनाम। निघं० १।१२। अहमपि (मंहिष्ठम्) दातृतमम्, महत्तमं पूज्यतमं वा तम् इन्द्रं परमात्मानम्। मंहते दानकर्मा। निघं० ३।२०। महि वृद्धौ, भ्वादिः। अतिशयेन मंहिता मंहिष्ठः। महयतिः अर्चतिकर्मा। निघं० ३।१४। (इन्दुभिः) भक्तिरूपैः सोमरसैः (सिञ्चे) आ सिञ्चामि ॥१॥४ अत्रोपमालङ्कारः ॥१॥
Essence
ये परमात्मना सह मैत्रीं विदधति ते सदाऽऽनन्दिता जायन्ते ॥१॥
Subject
अथ परमात्मानं प्रति जनानां कर्तव्यमुच्यते।
Footnote
१. ऋ० १।३०।१। २. भाष्यकारैः ‘वाजयन्तः सिञ्चे’ इत्यत्र व्यत्ययः स्वीकृतः। “वाजयन्तः इति वचनव्यत्ययः। वाजम् अन्नम् इच्छन् अहम्। अथवा आ सिञ्चे इत्यत्र वचनव्यत्ययः। आसिञ्चामः”—इति भ०। अस्मद्व्याख्याने तु व्यत्ययं विनैव कार्यनिर्वाहः। ३. कृविरिति कूपनाम। तत्सामीप्याद् आवाहकोऽपि क्रिविरुच्यते। यथा कश्चिद् आवाहकम् उदकेन आसिञ्चति तद्वदित्यर्थः—इति वि०। कृविं कूपं यथा अद्भिः आसिञ्चति कृत्रिमं तद्वत् इन्दुभिः त्वाम् आसिञ्चामि—इति भ०। कृती छेदने, कृत्यते छिद्यते खन्यते इति कृविः कृषिः। तां जलेन पूरयन्ति तद्वत्—इति सा०। ४. अत्र इन्द्रशब्देन शूरवीरगुणा उपदिश्यन्ते इति ऋग्भाष्येऽस्य मन्त्रस्य व्याख्याने दयानन्दः। तत्र मन्त्रः कृषीबलस्य वायूनां च दृष्टान्तेन सभाध्यक्षपरो व्याख्यातः।