Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 212

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣मे꣡ त꣢ इन्द्र꣣ सो꣡माः꣢ सु꣣ता꣢सो꣣ ये꣢ च꣣ सो꣡त्वाः꣢ । ते꣡षां꣢ मत्स्व प्रभूवसो ॥२१२

इ꣣मे꣢ । ते꣣ । इन्द्र । सो꣡माः꣢꣯ । सु꣣ता꣡सः꣢ । ये । च꣣ । सो꣡त्वाः꣢꣯ । ते꣡षा꣢꣯म् । म꣣त्स्व । प्रभूवसो । प्रभु । वसो ॥२१२॥

Mantra without Swara
इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः । तेषां मत्स्व प्रभूवसो ॥२१२

इमे । ते । इन्द्र । सोमाः । सुतासः । ये । च । सोत्वाः । तेषाम् । मत्स्व । प्रभूवसो । प्रभु । वसो ॥२१२॥

Samveda - Mantra Number : 212
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (इन्द्र) परमात्मन् ! (इमे) एते (ते) तुभ्यम् (सोमाः) अस्माकं मैत्रीरसाः, सन्तीति (शेषः), (ये) मैत्रीरसाः (सुतासः) पूर्वमपि अभिषुताः। आज्जसेरसुक्। अ० ७।१।५० इति सुतप्रातिपदिकाज्जसोऽसुगागमः, (सोत्वाः च) इतः परम् अभिषोतव्याः च। षुञ् अभिषवे धातोः ‘कृत्यार्थे तवैकेन्केन्यत्वनः। अ० ३।४।१४’ इति त्वन् प्रत्ययः। हे (प्रभूवसो) प्रभूततया सद्गुणानां वासयितः परमात्मन् ! प्रभु प्रचुरं यथा स्यात् तथा वासयतीति प्रभूवसुः। पूर्वपदस्य दीर्घश्छान्दसः, सम्बुद्धिस्वरः। त्वम् (तेषाम्) तैः। तृतीयार्थे षष्ठी। (मत्स्व) प्रमोदस्व। मदी हर्षग्लेपनयोः, भ्वादिः। आत्मनेपदं छान्दसम् ॥ अथ द्वितीयः—जीवात्मपरः। हे (इन्द्र) जीवात्मन् ! (ते) तुभ्यम् (इमे) एते (सोमाः) ज्ञानरसाः कर्मरसाः श्रद्धारसाश्च सन्ति, (ये सुतासः) पूर्वम् अभिषुताः, (सोत्वाः च) इतः परम् अभिषोतव्याश्च। हे (प्रभूवसो) मनोबुद्धीन्द्रियादीनां प्रचुरतया वासयितः ! त्वम् (तेषाम्) तैः रसैः (मत्स्व) तृप्तिं लभस्व। ज्ञानवान्, कर्मवान्, श्रद्धावांश्च भवेति भावः ॥९॥ अत्र श्लेषालङ्कारः ॥९॥
Essence
उपासकानां मनसि सद्गुणानां वासयिता दिव्यवसुः परमेश्वरः सर्वकालेषु सर्वैर्भक्तिरसेन सेचनीयः, स्वात्मा च ज्ञानरसैः, कर्मरसैः, श्रद्धारसैश्च तर्पणीयः ॥९॥
Subject
अथेन्द्रः सोमान् प्रत्याहूयते।