Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 210

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
धा꣣ना꣡व꣢न्तं कर꣣म्भि꣡ण꣢मपू꣣प꣡व꣢न्तमु꣣क्थि꣡न꣢म् । इ꣡न्द्र꣢ प्रा꣣त꣡र्जु꣢षस्व नः ॥२१०॥

धा꣣ना꣡व꣢न्तम् । क꣣रम्भि꣡ण꣢म् । अ꣣पूप꣡व꣢न्तम् । उ꣣क्थि꣡न꣢म् । इ꣡न्द्र꣢꣯ । प्रा꣣तः꣢ । जु꣣षस्व । नः ॥२१०॥

Mantra without Swara
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः ॥

धानावन्तम् । करम्भिणम् । अपूपवन्तम् । उक्थिनम् । इन्द्र । प्रातः । जुषस्व । नः ॥२१०॥

Samveda - Mantra Number : 210
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—विद्वत्परः। हे (इन्द्र) विद्वन् ! त्वम् (प्रातः) प्रभातकालेऽस्मिन् (नः) अस्माकम् (धानावन्तम्) धानाः भृष्टयवाः तद्वन्तम्, (करम्भिणम्) करम्भो घृतमिश्रिताः सक्तवः तद्वन्तम्, (अपूपवन्तम्) अपूपः घृतमिश्रो यवमयस्तण्डुलमयो वा पुरोडाशः तद्वन्तम्, (उक्थिनम्) स्तोत्रवन्तम् यज्ञम्। उच्यते इति उक्थः स्तोत्रम्। ततो मत्वर्थे इनिः प्रत्ययः। त्वम् (जुषस्व) प्रीतिपूर्वकं सेवस्व। जुषी प्रीतिसेवनयोः, तुदादिः ॥ अथ द्वितीयः—अध्यात्मपरः। हे (इन्द्र) परमात्मन्, त्वम् (प्रातः) प्रभातवेलायाम् (नः) अस्माकम् (धानावन्तम्) धानाः धारणाध्यानसमाधयः तद्वन्तम्, उपासनाकाण्डयुक्तम् इत्यर्थः। (करम्भिणम्) करम्भः कर्मकाण्डं तद्वन्तम्। करोतेर्बाहुलकाद् औणादिकोऽम्भच् प्रत्ययः। (अपूपवन्तम्) अपूपो ज्ञानकाण्डं, तद्वन्तम्। आप्नोति व्याप्नोति जिज्ञासून् इत्यपूपो ज्ञानम्। (उक्थिनम्) सामगानयुक्तम् उपासनायज्ञम् (जुषस्व) प्रीतिपूर्वकं (सेवस्व) ॥७॥२ अत्र श्लेषालङ्कारः ॥७॥
Essence
सर्वैर्मनुष्यैर्यवसक्त्वपूपादीनि सुगन्धिमिष्टपुष्ट्यारोग्यकराणि द्रव्याण्यग्नौ हुत्वा वायुमण्डलं स्वच्छं विधेयम्। तथैव ज्ञानकर्मोपासनाकाण्डमाश्रित्य सामगानं कुर्वद्भिः परमात्मा पूजनीयः। एतेन चाभ्युदयनिः श्रेयसयोः सिद्धिः साधनीया ॥७॥
Subject
अथेन्द्रनाम्ना परमात्मा विद्वानतिथिश्चाहूयते।
Footnote
१. ऋ० ३।५२।१, य० २०।२९। २. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजविषये, यजुर्भाष्ये च विद्वद्विषये व्याख्यातः।