Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 206

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
सु꣣नीथो꣢ घा꣣ स꣢꣫ मर्त्यो꣣ यं꣢ म꣣रु꣢तो꣣ य꣡म꣢र्य꣣मा꣢ । मि꣣त्रा꣢꣫स्पान्त्य꣣द्रु꣡हः꣢ ॥२०६॥

सु꣣नीथः꣢ । सु꣣ । नीथः꣢ । घ꣣ । सः꣢ । म꣡र्त्यः꣢꣯ । यम् । म꣣रु꣡तः꣢ । यम् । अ꣣र्यमा꣢ । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । पा꣡न्ति꣢꣯ । अ꣣द्रु꣡हः । अ꣣ । द्रु꣡हः꣢꣯ ॥२०६॥

Mantra without Swara
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा । मित्रास्पान्त्यद्रुहः ॥

सुनीथः । सु । नीथः । घ । सः । मर्त्यः । यम् । मरुतः । यम् । अर्यमा । मित्राः । मि । त्राः । पान्ति । अद्रुहः । अ । द्रुहः ॥२०६॥

Samveda - Mantra Number : 206
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। हे इन्द्र परमात्मन् ! (सः) असौ (मर्त्यः) मरणधर्मा मनुष्यः (घ) निश्चयेन। संहितायां ‘ऋचितुनुघ अ० ६।३।१३३ इति दीर्घः। (सुनीथः२) शुभनीतियुक्तः प्रशस्यो वा जायते। णीञ् प्रापणे धातोः हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२ इति क्थन्। शोभनः नीथः नयः अस्यास्तीति सुनीथः। सुनीथ इति प्रशस्यनाम। निघं० ३।८। (यम्) मर्त्यम् (मरुतः) प्राणाः, (यम्) मर्त्यम् (अर्यमा) अर्याणां श्रेष्ठविचाराणां संमानकर्ता आत्मा, (अद्रुहः) अद्रोग्धारः (मित्राः) सुहृद्भूता मनोबुद्धिचित्ताहंकाराश्चक्षुः- श्रोत्रत्वग्घ्राणरसनाश्च (पान्ति) रक्षन्ति पालयन्ति वा ॥ अथ द्वितीयः—राष्ट्रपरः। हे इन्द्र राजन् ! (सः) असौ (मर्त्यः) प्रजाजनः (घ) निश्चयेन (सुनीथः) सन्मार्गगन्ता सदाचारपरायणः जायते। नयति देशाद् देशान्तरमिति नीथो मार्गः। अत्र नैतिको मार्गो ग्राह्यः। (यम् मरुतः) वीराः क्षत्रियाः, (यम् अर्यमा) धार्मिको न्यायाधीशः, (अद्रुहः) राजद्रोहं प्रजाद्रोहं वाऽनाचरन्तः (मित्राः) मित्रभूताः अन्ये राज्याधिकारिणश्च (पान्ति) विपद्भ्यो रक्षन्ति पालयन्ति च ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
अस्मिन् जगति राष्ट्रे वा बहवो जना योग्यमार्गदर्शनमलभमानाः सन्मार्गाच्च्यवन्ते। परं जीवात्मप्राणादयोऽध्यात्ममार्गे क्रममाणं यं जनमनुगृह्णन्ति, राष्ट्रे च राज्याधिकारिणो यस्य साहाय्यं कुर्वन्ति, स निरन्तरं प्रगतिपथमनुधावन् लक्ष्यसिद्धिं प्राप्तुं क्षमते ॥३॥
Subject
अथ मित्रमरुदर्यमविषयमाह।
Footnote
१. ऋ० ८।४६।४ ऋषिः दशोऽश्व्यः। मित्रः पान्त्यद्रुहः इति पाठः। २. सुनीथः सुप्रशस्तः—इति वि०। सुमार्गः—इति भ०। सुयज्ञः सुनयनो वा इति सा०।