Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 204

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त꣣र꣡णिं꣢ वो꣣ ज꣡ना꣢नां त्र꣣दं꣡ वाज꣢꣯स्य꣣ गो꣡म꣢तः । स꣣मान꣢मु꣣ प्र꣡ श꣢ꣳ सिषम् ॥२०४॥

त꣣र꣡णि꣢म् । वः꣣ । ज꣡ना꣢꣯नाम् । त्र꣣द꣢म् । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । स꣣मा꣢नम् । स꣣म् । आन꣢म् । उ꣣ । प्र꣢ । शँ꣣सिषम् ॥२०४॥

Mantra without Swara
तरणिं वो जनानां त्रदं वाजस्य गोमतः । समानमु प्र शꣳ सिषम् ॥

तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गोमतः । समानम् । सम् । आनम् । उ । प्र । शँसिषम् ॥२०४॥

Samveda - Mantra Number : 204
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! (जनानां वः) जन्मधारिणां युष्माकम् (तरणिम्) नावम्, नौवत् तारकम्, विपत्सरितः पारयितारम्, (गोमतः) प्रशस्तधेनुयुक्तस्य, प्रशस्तभूमियुक्तस्य, प्रशस्तवाणीयुक्तस्य, प्रशस्तेन्द्रिययुक्तस्य, प्रशस्तकिरणयुक्तस्य, प्रशस्तान्तःप्रकाशयुक्तस्य वा (वाजस्य) ऐश्वर्यस्य (त्रदम्२) तर्दकं, प्रदातारम्, इन्द्रं परमात्मानं, राजानं, सूर्यं वा। तृदिर् हिंसानादरयोः। अत्र दानार्थः। तृणत्ति ददातीति त्रदः। इगुपधज्ञाप्रीकिरः कः। अ० ३।१।१३५ इति कः प्रत्ययः। प्रत्ययस्वरेणान्तोदात्तत्वम्। अहम् (समानम् उ) सप्राणम्३ सोत्साहम् (प्रशंसिषम्) प्रशंसामि उद्बोधयामि वा। शंसु स्तुतौ, छन्दसि लुङ्लङ्लिटः अ० ३।४।६ इति कालसामान्ये लुङ्, बहुलं छन्दस्यमाङ्योगेऽपि अ० ६।४।७५ इत्यडभावः। पणय इन्द्रस्य गा अपहृत्य पर्वतगुहायां प्रच्छादयन्ति, इन्द्रश्च सरमां दूतीं विधाय अङ्गिरसां सोमस्य, बृहस्पतेश्च साहाय्येन गुहामातृद्य ता विमोचयतीति वृत्तं वेदे बहुशो वर्णितम्४। अध्यात्मक्षेत्रे गावोऽन्तःप्रकाशस्य किरणाः मनसः सात्त्विकवृत्तयो वा, इन्द्रः परमात्मा जीवात्मा वा, पणयश्च, तासां गवामपहारिकास्तामस्यो मनोवृत्तयः। अधिदैवतक्षेत्रे गावः किरणाः, इन्द्रः सूर्यः, पणयश्च मेघाः तमःपूर्णा रात्रयो वा। राष्ट्रियक्षेत्रे गावः धेनुपृथिव्यादयः सम्पदः, इन्द्रो राष्ट्रपालको राजा, पणयश्च तासां सम्पदामपहर्त्तारो लुण्ठकाः शत्रवः सन्ति। इन्द्रः परमात्मा, जीवात्मा, सूर्यो, राजा च तांस्तान् पणीन् पराजित्य तद्गुहां विभिद्य ता गाः पुनः प्राप्य सत्पात्रेभ्यो ददाति। अस्मादेव प्रसङ्गादत्र तृद धातुर्दानार्थः सञ्जातः ॥१॥ अत्र श्लेषालङ्कारः। इन्द्रे तरणित्वारोपाच्च रूपकम् ॥१॥
Essence
तरणिवत् परमात्मा संसारसागराज्जनानां तारकः, जीवात्मा कुमार्गादिन्द्रियाणां तारकः, सूर्योऽन्धकाराद् रोगाद् वा मनुष्याणां तारकः, राजा च विपद्भ्यः प्रजानां तारको भवति। एते स्वस्वक्षेत्रे यथायोग्यं दिव्यप्रकाशरूपाणां, दिव्येन्द्रियरूपाणां, किरणरूपाणां, धेनुरूपाणां, पृथिवीरूपाणां वा गवां शत्रुसकाशादाहर्त्तारो भवन्ति। अत एतेषां प्रशंसा, गुणवर्णनं सेवनं च सर्वैः कार्यम् ॥१॥
Subject
तत्राद्ये मन्त्रे परमात्मानं, जीवं, सूर्यं, राजानं च प्रशंसति।
Footnote
१. ऋ० ८।४५।२८। २. त्रदं तर्दनं प्रकाशयितारं दातारं वा—इति भ०। त्रदं तर्दयितारं हिंसितारमित्यर्थः—इति वि०। सायणस्तु ‘त्रदं शत्रूणां तर्दयितारं, गोमतः पशुमतः वाजस्य अन्नस्य दातारम्’ इति व्याचष्टे। तत्र दातारम् इत्यध्याहारः। केचित्तु त्राता दाता च त्रदः इति व्याचख्युः। परं पदपाठेऽविभज्य दर्शनात् त्रश्च दश्चेति द्व्योः पदयोः समासो न पदकारसम्मतः। ३. पदपाठे सम् आनम् इति पदच्छेदादत्र संपूर्वः अन प्राणने धातुर्विज्ञेयः। ४. द्रष्टव्यम्—ऋक्सूक्तम् ४।२८, १०।१०८। रिरिचतुः क्षाश्चित् ततृदाना ऋ० ४।२८।५ इत्यत्र तु तृद् धातुरेव प्रयुक्तः, प्रस्तुते मन्त्रेऽपि त्रदम् इत्यत्र स एव धातुः।