Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 203

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
न꣡ कि꣢ इन्द्र꣣ त्व꣡दुत्त꣢꣯रं꣣ न꣡ ज्यायो꣢꣯ अस्ति वृत्रहन् । न꣢ क्ये꣣वं꣢꣫ यथा꣣ त्व꣢म् ॥२०३॥

न꣢ । कि꣣ । इन्द्र । त्व꣢त् । उ꣡त्त꣢꣯रम् । न । ज्या꣡यः꣢꣯ । अ꣣स्ति । वृत्रहन् । वृत्र । हन् । न꣢ । कि꣣ । एव꣢म् । य꣡था꣢꣯ । त्वम् ॥२०३॥

Mantra without Swara
न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् । न क्येवं यथा त्वम् ॥

न । कि । इन्द्र । त्वत् । उत्तरम् । न । ज्यायः । अस्ति । वृत्रहन् । वृत्र । हन् । न । कि । एवम् । यथा । त्वम् ॥२०३॥

Samveda - Mantra Number : 203
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमात्मन् ! (त्वत्) त्वामपेक्ष्य (उत्तरम्) गुणैः प्रशस्यतरम् (न कि) नैव किमपि अस्ति। हे (वृत्रहन्) विघ्नविनाशक ! (न) नैव किमपि (ज्यायः) आयुषि वृद्धतरम्। अत्र ईयसुन् प्रत्यये वृद्धस्य च। अ० ५।३।६२ इत्यनेन वृद्धस्य ज्य इत्यादेशः। (न कि) नैव (एवम्) एतादृशम् अस्ति (यथा) यादृशः (त्वम्) त्वम् असि। उक्तं च श्वेताश्वतरेऽपि—न तत्समश्चाभ्यधिकश्च दृश्यते। श्वेता–० ६।८ इति ॥१०॥२
Essence
सुविशालेऽप्यस्मिन् ब्रह्माण्डे यस्माद् गुणवत्तरं वृद्धतरं वा किञ्चिन्नास्ति, स जगदीश्वरः सर्वैः श्रद्धया संपूजनीयः ॥१०॥ अत्रेन्द्रं प्रति ज्ञानकर्मोपासनारूपसोमार्पणात्, तत्स्तुतिगानात्, ततो रयियाचनात्, तन्महत्त्ववर्णनाद्, इन्द्रनाम्नाऽऽचार्यनृपतिसूर्याणां चापि वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इति तृतीये प्रपाठके प्रथमार्धे प्रथमा दशतिः। इति द्वितीयाध्याये नवमः खण्डः ॥
Subject
अथेन्द्रस्य परमात्मनो महत्त्वं प्रतिपादयति।
Footnote
१. ऋ० ४।३०।१, नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन्। नकिरेवा यथा त्वम् ॥ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् यः सर्वेभ्यः श्रेष्ठो भवेत् तमेव राजानं कुरुत इति विषये व्याख्यातवान्।