Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 201

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣मा꣡ उ꣢ त्वा सु꣣ते꣡सु꣢ते꣣ न꣡क्ष꣢न्ते गिर्वणो꣣ गि꣡रः꣢ । गा꣡वो꣢ व꣣त्सं꣢꣫ न धे꣣न꣡वः꣢ ॥२०१॥

इ꣣माः꣢ । उ꣣ । त्वा । सुते꣡सु꣢ते । सु꣣ते꣢ । सु꣣ते । न꣡क्ष꣢꣯न्ते । गि꣣र्वणः । गिः । वनः । गि꣡रः꣢꣯ । गा꣡वः꣢꣯ । व꣣त्स꣢म् । न । धे꣣न꣡वः꣢ ॥२०१॥

Mantra without Swara
इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः । गावो वत्सं न धेनवः ॥

इमाः । उ । त्वा । सुतेसुते । सुते । सुते । नक्षन्ते । गिर्वणः । गिः । वनः । गिरः । गावः । वत्सम् । न । धेनवः ॥२०१॥

Samveda - Mantra Number : 201
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (गिर्वणः२) गीर्भिः स्तुतिवाग्भिः वन्यते सेव्यते याच्यते वा यः स गिर्वणाः, तथाविध हे इन्द्र परमैश्वर्यवन् परमात्मन् ! (इमाः उ) एताः खलु अस्मदुच्चार्यमाणाः (गिरः) वेदवाचः स्तुतिवाचो वा (सुतेसुते) प्रतिज्ञानकर्मोपासनाव्यवहारम्३ (त्वा) त्वाम् (नक्षन्ते) प्राप्नुवन्ति। नक्षतिः गतिकर्मा व्याप्तिकर्मा च। निघं० २।१४, २।१८। (धेनवः) स्वपयसः पाययित्र्यः, दुग्धदानेन प्रीणयित्र्यो वा। धेनुः धयतेर्वा धिनोतेर्वा। निरु० ११।४३। (गावः) पयस्विन्यः (वत्सं न) यथा वत्सं नक्षन्ते प्राप्नुवन्ति ॥८॥४ अत्रोपमालङ्कारः ॥८॥
Essence
यथा प्रस्नुवत्पयोधरा नवप्रसूता गावः पयः पाययितुं त्वरया वत्सं प्राप्नुवन्ति, तथैवास्मदीयाः प्रस्नुवद्रसा अर्थगर्भाः स्तुतिवाचः प्रतिज्ञानयज्ञं, प्रतिकर्मयज्ञं, प्रत्युपासनायज्ञं च परमात्मानमुपतिष्ठेरन् ॥८॥५
Subject
अथ स्तोतारः परमात्मानमाहुः।
Footnote
१. ऋ० ६।४५।२८, ऋषिः शंयुः बार्हस्पत्यः। वत्सं गावो न धेनवः इति तृतीयः पादः। २. द्रष्टव्यम् १६५ संख्यकमन्त्रस्य भाष्यम्। ३. (सुतम्) कर्मोपासनाज्ञानरूपं व्यवहारम् इति ऋ० १।३।८ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं शुद्धाचारान् प्रत्यस्माकं वाचः प्रयान्तु इति विषये व्याख्यातवान्। ५. यथा अचिरप्रसूता गावः स्नेहार्द्रेण मनसा वत्सं व्याप्नुवन्ति तद्वत् त्वां हे इन्द्र अस्मदीयाः स्तुतयः व्याप्नुवन्तीत्यर्थः—इति वि०।