Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 200

1875 Mantra
Devata- इन्द्रः Rishi- गृत्समदः शौनकः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ म꣣ह꣢द्भ꣣य꣢म꣣भी꣡ षदप꣢꣯ चुच्यवत् । स꣢꣫ हि स्थि꣣रो꣡ विच꣢꣯र्षणिः ॥२००॥

इ꣡न्द्रः꣢꣯ । अ꣣ङ्ग꣢ । म꣣ह꣢त् । भ꣣य꣢म् । अ꣣भि꣢ । सत् । अ꣡प꣢꣯ । चु꣣च्यवत् । सः꣢ । हि । स्थि꣣रः꣢ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः ॥२००॥

Mantra without Swara
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् । स हि स्थिरो विचर्षणिः ॥

इन्द्रः । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् । सः । हि । स्थिरः । विचर्षणिः । वि । चर्षणिः ॥२००॥

Samveda - Mantra Number : 200
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (अङ्ग१) हे भद्र ! (इन्द्रः) विघ्नविदारकः सिद्धिप्रदाता परमेश्वरः (अभि सत्२) अभिभवत्, (महत्) विपुलम् (भयम्) विपज्जन्यं, कामक्रोधादिशत्रूत्पीडनजन्यं, जन्म-मरणजन्यं वा त्रासम् (अप चुच्यवत्) भृशम् अपच्यावयेत्। च्युङ् गतौ धातोर्यङ्लुगन्तस्य लेटि रूपम्। (हि) यस्मात् (सः) परमेश्वरः (स्थिरः) भयैरनुद्विग्नः स्थिरमतिः, (विचर्षणिः) भयनिवारणोपायानां द्रष्टा दर्शयिता च, वर्तते इति शेषः। विचर्षणिः इति पश्यतिकर्मसु पठितम्। निघं० ३।११ ॥ अथ द्वितीयः—सूर्यपरः। (अङ्ग) हे भद्र ! (इन्द्रः) तमोविदारकः प्रकाशप्रदाता सूर्यः (अभि सत्) अभिभवत् उद्वेजनकारि, (महत्) विपुलम् (भयम्) रोगजन्यं, व्याघ्रादिहिंस्रजन्तुजन्यम्, आशङ्कितपृथिव्यादिग्रहोपग्रहसंघट्टजन्यम् एवमादिप्रकारकं भीतिसमूहम् (अपचुच्यवत्) अपच्यावयति, (हि) यस्मात् (सः) असौ सूर्यः (स्थिरः) आकर्षणद्वारा गगने स्थिरः, स्वधुरि एव भ्रमणशीलत्वात् स्थानान्तरगतिरहितः, (विचर्षणिः) प्रकाशप्रदानेन सर्वेषां दर्शयिता चास्ति ॥३ अथ तृतीयः—राष्ट्रपरः। (अङ्ग) हे भद्र ! (इन्द्रः) परमैश्वर्यवान्, शत्रुविदारकः, प्रजानां सुखसम्पत्प्रदाता राजा सेनापतिर्वा (अभि सत्) राष्ट्रेऽभिव्याप्यमानम्, (महत्) विस्तीर्णम् (भयम्) आन्तरिकबाह्यशत्रुकर्तृकं प्रतारणलुण्ठनबन्धनहिंसनविप्लवराजविद्रोहादिजन्यं त्रासम् (अप चुच्यवत्) दूरीकुर्यात्, (हि) यस्मात् (सः) असौ (स्थिरः) स्वपदे ध्रुवः, (विचर्षणिः) चारचक्षुर्भिः स्वराष्ट्रजातस्य शत्रुराष्ट्रजातस्य च निखिलस्यापि वृत्तस्य विशेषरूपेण द्रष्टा च विद्यते ॥७॥ अत्र श्लेषालङ्कारः ॥७॥
Essence
कदाचित् कामक्रोधादिरिपुजन्यं भयं, कदाचिद् दुर्भिक्षनद्यापूरसंक्रामकरोगादिजन्यं भयं, कदाचिन्मानवीयविपज्जन्यं भयं, कदाचिद् व्याघ्रादिहिंस्रजन्तुजन्यं भयं, कदाचित् प्रतिवेशिशत्रुराष्ट्रजन्यं भयं, कदाचित् स्तेनलुण्ठकवञ्चकघातकादिजन्यं भयं, कदाचिज्जन्ममरणचक्रजन्यं भयं मनुष्यानुद्वेजयति। स्थिरः सर्वद्रष्टा परमात्मा, स्थिरः प्रकाशकः सूर्यः, स्थिरश्चारचक्षू राजा च तस्मात् सर्वविधादपि भयाद् विमोचयेद्, येन सर्वे जनाः सर्वतो निर्भयाः सन्तोऽभ्युदयं निःश्रेयसं च प्राप्तुं शक्नुयुः ॥७॥
Subject
अथेन्द्रं भयान्मुक्तिं प्रार्थयते।
Footnote
१. ऋ० २।४१।१०, अथ २०।२०।५, ५७।८। २. अङ्ग क्षिप्रम्—इति वि०, भ०, सा०। ३. अभि सत् आभिमुख्येन सीदत्, पर्युपस्थितम्—इति वि०। अभितः सम्भवदिति वा अभिभवदिति वा—इति भ०। सायणस्तु क्रियापदत्वेन शत्रन्तत्वेन चोभयथापि व्याचष्टे—अभीषत् अभिभवति, यद्वा अभीषद् अभिभवद् इति। ४. तुलनीयम्—ऋग्भाष्येऽस्य मन्त्रस्य दयानन्दभाष्यम्। तत्र चैष भावार्थ उक्तः—“यदि ब्रह्माण्डे सूर्यो न स्यात् तर्हि कस्यापि भयं न निवर्तेत। यदि सूर्यलोकः स्वपरिधौ स्थिरो दर्शको न भवेत् तर्हि तुल्याकर्षणं दर्शनं च न भवेद्” इति।