Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 198

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢न्द्र꣣मि꣢द्गा꣣थि꣡नो꣢ बृ꣣ह꣡दिन्द्र꣢꣯म꣣र्के꣡भि꣢र꣣र्कि꣡णः꣢ । इ꣢न्द्रं꣣ वा꣡णी꣢रनूषत ॥१९८॥

इ꣡न्द्र꣢꣯म् । इत् । गा꣣थि꣡नः꣢ । बृ꣣ह꣢त् । इ꣡न्द्र꣢꣯म् । अ꣣र्के꣡भिः । अ꣣र्कि꣡णः꣢ । इ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣣नूषत ॥१९८॥

Mantra without Swara
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ॥

इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः । इन्द्रम् । वाणीः । अनूषत ॥१९८॥

Samveda - Mantra Number : 198
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रम्) महान्तं परमेश्वरम् (इत्) एव (गाथिनः) सामगानकर्तारः उद्गातारः। गै शब्दे धातोः ‘उषिकुषिगार्तिभ्यस्थन्। उ० २।४ इति थन् प्रत्यये गाथः। गाथः सामगानं येषामस्तीति ते गाथिनः। (इन्द्रम्) तमेव महान्तं परमेश्वरम् (अर्केभिः२) अर्कैः वेदमन्त्रैः। अर्को मन्त्रो भवति यदेनेन अर्चन्ति। निरु० ५।४। अर्कैः इति प्राप्ते ‘बहुलं छन्दसि। अ० ७।१।१० इति भिस ऐसादेशो न। (अर्किणः) मन्त्रपाठिनो होतारः, (इन्द्रम्) तमेव च महान्तं परमेश्वरम् (वाणीः३) अन्येषामपि जनानां वाण्यः (बृहत्४) बहु (अनूषत) अनाविषुः स्तुवन्ति। णु स्तुतौ धातोः कालसामान्ये लुङ्। व्यत्ययेनात्मनेपदम्। छान्दसं रूपम् ॥५॥५
Essence
परमैश्वर्यवान्, दुःखदारिद्र्यविदारकः, सुखसम्पत्प्रदाता, धार्मिकाणां प्रशंसकः, कुकर्मणां विद्रावकः, सकलगुणनिधिः, सद्गुणाधायकः परमात्मैव सर्वजनवन्दनीयोऽस्ति। स एव सामगानेन मन्त्रपाठादिना च स्तोतव्यः ॥५॥
Subject
अथ सर्वेषामिन्द्रस्तोतृत्वमाह।
Footnote
१. ऋ० १।७।१, अथ० २०।३८।४, ४७।४, ७०।७, साम० ७९६। २. (अर्केभिः) अर्चनसाधकैः सत्यभाषणादिभिः शिल्पविद्यासाधकैः कर्मभिः मन्त्रैश्च—इति ऋ० १।७।१ भाष्ये द०। ३. वाणीभिः यज्ञलक्षणाभिर्वाग्भिः—इति वि०। वाण्यः सर्वाः—इति भ०। ये त्ववशिष्टा अध्यर्यवः ते वाणीः वाग्भिर्यजूरूपाभिः—इति सा०। वाणीः वेदचतुष्टयीः—इति ऋ० १।७।१। भाष्ये द०। ४. बृहन्नाम्ना महता वा—इति वि०। बृहन्तमिति वा बृहता साम्ना इति वा—इति भ०। ‘त्वामिद्धि हवामहे’ इत्यस्यामृच्युत्पन्नेन बृहन्नामकेन साम्ना—इति सा०। बृहत् महान्तम्। अत्र ‘सुपां सुलुक्’ इत्यमो लुक् इति ऋग्भाष्ये द०। ५. ऋग्भाष्ये दयानन्दर्षिणाऽस्य मन्त्रस्य व्याख्याने प्रथमेन इन्द्रशब्देन परमेश्वरः, द्वितीयेन सूर्यः, तृतीयेन च महाबलवान् वायुर्गृहीतः।