Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 197

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्ष आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ त्वा꣢ विश꣣न्त्वि꣡न्द꣢वः समु꣣द्र꣡मि꣢व꣣ सि꣡न्ध꣢वः । न꣢꣫ त्वामि꣣न्द्रा꣡ति꣢ रिच्यते ॥१९७॥

आ꣢ । त्वा꣣ । विशन्तु । इ꣡न्द꣢꣯वः । स꣣मुद्र꣢म् । स꣣म् । उद्र꣢म् । इ꣣व । सि꣡न्ध꣢꣯वः । न । त्वाम् । इ꣣न्द्र । अ꣡ति꣢꣯ । रि꣣च्यते ॥१९७॥

Mantra without Swara
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्राति रिच्यते ॥

आ । त्वा । विशन्तु । इन्दवः । समुद्रम् । सम् । उद्रम् । इव । सिन्धवः । न । त्वाम् । इन्द्र । अति । रिच्यते ॥१९७॥

Samveda - Mantra Number : 197
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्दवः) चन्द्रकिरणवदाह्लादकाः मदीयाः स्तुतिरूपाः सोमाः (त्वा) त्वां परमेश्वरम् (आ विशन्तु) प्रविशन्तु, प्राप्नुवन्तु, (सिन्धवः) स्यन्दमानाः नद्यः (समुद्रम् इव) यथा समुद्रम् आ विशन्ति प्राप्नुवन्ति। हे (इन्द्र) परमैश्वर्यशालिन् दुःखविदारक सुखप्रदायक परमात्मन् ! (त्वाम्) अनुपमं भवन्तम् कश्चित् (न अतिरिच्यते) न अतिशेते, महिम्ना त्वत्तोऽधिकतरो न भवतीत्यर्थः ॥४॥ अत्रोपमालङ्कारः ॥४॥
Essence
यथा नद्यो रत्नाकरं प्राप्य रत्नमण्डिता जायन्ते, तथा सर्वाः प्रजाः स्तुत्या गुणरत्ननिधानं परमेश्वरं प्राप्य गुणानां निधयो भवन्तु ॥४॥
Subject
अथ परमात्मस्तुतिविषयमाह।
Footnote
१. ऋ० ८।९२।२२, ऋषिः श्रुतकक्षः सुकक्षो वा। साम० १६६०।