Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 196

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣡दा꣢ व꣣ इ꣢न्द्र꣣श्च꣡र्कृ꣢ष꣣दा꣢꣫ उपो꣣ नु꣡ स स꣢꣯प꣣र्य꣢न् । न꣢ दे꣣वो꣢ वृ꣣तः꣢꣫ शूर꣣ इ꣡न्द्रः꣢ ॥१९६

स꣡दा꣢꣯ । वः꣣ । इ꣡न्द्रः꣢꣯ । च꣡र्कृ꣢꣯षत् । आ । उ꣡प꣢꣯ । उ꣣ । नु꣢ । सः । स꣣पर्य꣢न् । न । दे꣣वः꣢ । वृ꣣तः꣢ । शू꣡रः꣢꣯ । इ꣡न्द्रः꣢꣯ ॥१९६॥

Mantra without Swara
सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् । न देवो वृतः शूर इन्द्रः ॥१९६

सदा । वः । इन्द्रः । चर्कृषत् । आ । उप । उ । नु । सः । सपर्यन् । न । देवः । वृतः । शूरः । इन्द्रः ॥१९६॥

Samveda - Mantra Number : 196
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जनाः ! (सदा) सर्वदा (वः) युष्मान् यः (इन्द्रः) परमेश्वरः सुयोग्यो जनो वा (आ१ चर्कृषत्२) अतिशयेन पुनः पुनः कर्मसु प्रेरयेत्। कृष विलेखने धातोर्यङ्लुगन्ताल्लेटि रूपम्। यद्वा डुकृञ् करणे धातोर्णिजन्ताद् यङ्लुगन्ताल्लेटि सिब्बहुलं लेटि। अ० ३।१।३४ इति सिबागमे रूपम्। (उप उ) उपेत्य च (नु) क्षिप्रम्। नु इति क्षिप्रनाम। निघं० २।१५। (सः) असौ (सपर्यन्) युष्मान् सत्कुर्वन्, प्रेम्णा युष्मभ्यं शुभकर्मार्थं साधुवादं प्रोत्साहनं च प्रयच्छन् भवेत्, तादृशं (देवः) दिव्यगुणकर्मस्वभावः (शूरः) वीरः (इन्द्रः) परमेश्वरः सुयोग्यो जनो वा (वृतः न३) युष्माभिर्नेतृत्वेन राजत्वेन वा स्वीकृतो न ? वरणाभावे कथं पूर्वोक्ता लाभाः स्युः ? अतोऽवश्यं स वरणीय इति भावः ॥३॥ अत्र अर्थश्लेषालङ्कारः ॥३॥
Essence
यथा वृतः परमेश्वरो जनान् पुरुषार्थे प्रवर्तयति, शुभकर्मकारिणश्च साधुवादेन समुत्साहयति, तथैव प्रजाभिर्निर्वाचितो राजा प्रजाभ्यः कुर्यात् ॥३॥
Subject
अथ परमेश्वरस्य नृपतेश्च वरणविषयमाह।
Footnote
१. आ उप उ नु चत्वारोऽप्येते पादपूरणाः—इति वि०। २. चर्कृषत् अत्यर्थं करोति, पुनः पुनर्वा करोति। किम् ! उच्यते। बलं पुष्टिं हिरण्यं दीर्घं च जीवितम्—इति वि०। आचर्कृषत् आ करोतु, भृशं करोतु। करोतेः यङ्लुकि पञ्चमलकारान्तः चर्कृषदिति। आकरणम् आनयनम्, उपो उप समीपे—इति भ०। ३. न शब्द उपरिष्टादुपचारत्वादुपमार्थीयः, परिचरन्निव—इति वि०। तत्तु चिन्त्यम्, यतो द्वितीयपादसमाप्तौ विरामानन्तरं तृतीयपादादौ प्रयुक्तो न शब्दः सपर्यन् इत्यतः सम्बन्धमुपपादयितुं नार्हतीति। न वृतः न वारितः केनचित्—इति भ०। सायणेन तु न इत्यस्य स्थाने नः इति पाठं मत्वा व्याख्यातम्, तदपि चिन्त्यं कुत्रापि नः इति पाठस्यानुपलम्भात्।