Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 195

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
गि꣡र्व꣢णः पा꣣हि꣡ नः꣢ सु꣣तं꣢꣫ मधो꣣र्धा꣡रा꣢भिरज्यसे । इ꣢न्द्र꣣ त्वा꣡दा꣢त꣣मि꣡द्यशः꣢꣯ ॥१९५॥

गि꣡र्व꣢꣯णः । गिः । व꣣नः । पाहि꣢ । नः꣣ । सुत꣢म् । म꣡धोः꣢꣯ । धा꣡रा꣢꣯भिः । अ꣣ज्यसे । इ꣡न्द्र꣢꣯ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । इ꣢त् । य꣡शः꣢꣯ ॥१९५॥

Mantra without Swara
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥

गिर्वणः । गिः । वनः । पाहि । नः । सुतम् । मधोः । धाराभिः । अज्यसे । इन्द्र । त्वादातम् । त्वा । दातम् । इत् । यशः ॥१९५॥

Samveda - Mantra Number : 195
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (गिर्वणः२) गीर्भिः स्तुतिवाग्भिः आदरवचनैर्वा वननीय संसेव्य याचनीय वा परमात्मन् आचार्य वा ! त्वम् (नः) अस्माकम् (सुतम्) अभिषुतम् अर्जितं ज्ञानरसं विविधविद्याविज्ञानम् (पाहि) रक्ष। त्वम् (मधोः) मधुरस्य ज्ञानराशेः (धाराभिः) प्रवाहैः (अज्यसे) संसिक्तोऽसि, अगाधज्ञानविज्ञानराशेः सागरोऽसीत्यर्थः। अज गतिक्षेपणयोः। गतिरत्र संसेचनमभिप्रेतम्। (इन्द्र) हे ज्ञानैश्वर्यवन् परमात्मन् आचार्य वा ! (त्वादातम्) त्वया दातं शोधितं, संशोध्य धवलीकृतम्। दातम् इति दैप् शोधने धातोर्निष्ठायां रूपम्। ततो युष्मद्दातपदयोः समासः। (इत्) एव (यशः) विविधविद्यासदाचरणसमुत्पन्नं कीर्तिजातम् नः अस्तु इति शेषः। यद्वा, हे परमात्मन् आचार्यप्रवर वा ! (यशः) तपोब्रह्मचर्यवैदुष्यव्रतपालनादिजन्यं कीर्तिजातम् (त्वादातम्३ इत्) त्वयैव दातव्यमस्ति, तत् त्वं देहीत्यर्थः। त्वादातम् त्वया दातव्यम् इति निरुक्तम्। ४।४ ॥२॥४ अत्र श्लेषालङ्कारः ॥२॥
Essence
गुरुकुलेऽधीयानाश्छात्रा आचार्यं प्रार्थयन्ते यद् भो आचार्यप्रवर ! त्वमगाधपाण्डित्यनिधिः शिक्षणकलायां च परमप्रवीणोऽसि। भ्रान्त्यपूर्णतादिदोषैर्निर्मुक्तं स्वच्छं ज्ञानमस्मदभ्यन्तरे प्रवाहय, स्थिरं च कुरु। तदैवास्माकं धवलं यशः सर्वत्र प्रसरिष्यति। तथैव समग्रविद्याविद्योतितः स्वच्छज्ञाननिधिः परमात्मापि प्रार्थ्यते। तदेव यशो वस्तुतत्वेन यशोऽस्ति यत् परमात्मन आशीर्वादेन धवलितं भवति ॥२॥
Subject
अथेन्द्रनाम्ना परमात्मा गुरुश्च प्रार्थ्यते।
Footnote
१. ऋ० ३।४०।६, अथ० २०।६।६। २. द्रष्टव्यम्—१६५ संख्यकमन्त्रस्य भाष्यम्। ३. त्वादातम् त्वया दत्तम्—इति वि०, भ०। त्वया शोधितं विशदीकृतम्—इति सा०। ४. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रो राजप्रजापक्षे व्याख्यातः।