Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 194

1875 Mantra
Devata- इन्द्रः Rishi- प्रगाथः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣡त्त्वा꣢ मन्दन्तु꣣ सो꣡माः꣢ कृणु꣣ष्व꣡ राधो꣢꣯ अद्रिवः । अ꣡व꣢ ब्रह्म꣣द्वि꣡षो꣢ जहि ॥१९४॥

उ꣢त् । त्वा꣣ । मन्दन्तु । सो꣡माः꣢꣯ । कृ꣣णुष्व꣢ । रा꣡धः꣢꣯ । अ꣣द्रिवः । अ । द्रिवः । अ꣡व꣢꣯ । ब्र꣣ह्मद्वि꣡षः꣢ । ब्र꣣ह्म । द्वि꣡षः꣢꣯ । ज꣣हिः ॥१९४॥

Mantra without Swara
उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥

उत् । त्वा । मन्दन्तु । सोमाः । कृणुष्व । राधः । अद्रिवः । अ । द्रिवः । अव । ब्रह्मद्विषः । ब्रह्म । द्विषः । जहिः ॥१९४॥

Samveda - Mantra Number : 194
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे इन्द्र परमात्मन् ! (सोमाः) अस्माभिरभिषुताः श्रद्धारसा ज्ञानरसाः कर्मरसाश्च (त्वा) त्वाम् (उत् मन्दन्तु२) उत्कृष्टतया आनन्दयन्तु। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, अन्तर्णीतण्यर्थः। परस्मैपदं छान्दसम्। हे (अद्रिवः) मेघानां स्वामिन् वृष्टिकर्तः। अद्रिः इति मेघनाम। निघं० १।१०। ततो मतुप्। अद्रयो मेघा अस्य सन्तीति अद्रिवान्। छन्दसीरः। अ० ८।२।१५ इति मतुपो मकारस्य वत्वम्। सम्बुद्धौ मतुवसो रु सम्बद्धौ छन्दसि। अ० ८।३।१ इति नकारस्य रुः आदेशः। त्वमस्मभ्यम् (राधः) अहिंसासत्यास्तेयधारणाध्यानसमाधियोगसिद्ध्यादिकम् आध्यात्मिकम् ऐश्वर्यम्। राधस् इति धननाम। निघं० २।१०। (कृणुष्व) प्रदेहि, (ब्रह्मद्विषः) ब्रह्मविरोधिनः कामक्रोधनास्तिकत्वादीन् मानसान् रिपून् (अवजहि) अवपातय ॥ अथ द्वितीयः—राजपरः। हे इन्द्र राजन् ! (सोमाः) वीररसाः३ (त्वा) त्वाम् (उत् मन्दन्तु) उद्धर्षयन्तु उत्साहयन्तु। हे (अद्रिवः) वज्रवन्, विविधशस्त्रास्त्रसज्जित, धनुर्वेदपारंगत राजन् ! त्वं प्रजाभ्यः (राधः) सर्वविधं धनधान्यादिकम् (कृणुष्व) उत्पादय, प्रदेहि वा। (ब्रह्मद्विषः) ईश्वरविरोधिनो विद्याविरोधिनः सत्यविरोधिनो धर्मविरोधिनो न्यायविरोधिनः प्रजाविरोधिनश्च दस्युतस्करादीन् (अवजहि) विनाशय ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
Essence
उपासितः परमेश्वरो वीररसैरुत्साहितो राजा च प्रजानामुपरि भौतिकाध्यात्मिकसम्पदां वृष्टिं करोति, ब्रह्मद्विषः शत्रूंश्च दण्डयति हिनस्ति वा। अतः सर्वैः परमेश्वर उपासनीयो राजा च सत्करणीयः प्रोत्साहनीयश्च ॥१॥
Subject
अथेन्द्रः सोमरसैः प्रहृष्टः सन् किं कुर्यादित्याह।
Footnote
१. ऋ० ८।६४।१, अथ० २०।९३।१, साम० १३५४। २. मदी हर्षे, मद तृप्तौ इत्यस्य वेदं रूपम्। मदिश्चान्तर्णीतण्यर्थो द्रष्टव्यः। मदयन्तु हर्षयन्तु तर्पयन्तु वेत्यर्थः—इति वि०। उत् अधिकं मन्दन्तु मोदयन्तु—इति भ०। ३. (सोमम्) वीररसादिकम्—इति ऋ० १।४७।३ भाष्ये द०।