Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 193

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्वा꣡व꣢तः पुरूवसो व꣣य꣡मि꣢न्द्र प्रणेतः । स्म꣡सि꣢ स्थातर्हरीणाम् ॥१९३॥

त्वा꣡व꣢꣯तः । पु꣣रूवसो । पुरु । वसो । वय꣣म् । इ꣣न्द्र । प्रणेतः । प्र । नेतरि꣡ति । स्म꣡सि꣢꣯ । स्था꣣तः । हरीणाम् ॥१९३॥

Mantra without Swara
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । स्मसि स्थातर्हरीणाम् ॥

त्वावतः । पुरूवसो । पुरु । वसो । वयम् । इन्द्र । प्रणेतः । प्र । नेतरिति । स्मसि । स्थातः । हरीणाम् ॥१९३॥

Samveda - Mantra Number : 193
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पुरूवसो) पुरु-वसो बहुधन। संहितायाम् अन्येषामपि दृश्यते। अ० ६।३।१३७ इति पूर्वपदान्तस्य दीर्घः। (प्रणेतः) प्रकृष्ट नायक। प्रनेतः, उपसर्गादसमासेऽपि णोपदेशस्य। अ० ८।४।१४ इति नस्य णत्वम्। (हरीणाम्) आकर्षणगुणयुक्तानां पृथिवीसूर्यादिलोकानाम् यद्वा विषयेषु हरणशीलानाम् इन्द्रियाणाम्, यद्वा वहनशीलानां विमानादियानानाम् (स्थातः२) अधिष्ठातः (इन्द्र) परमात्मन्, जीवात्मन्, विद्वन् वा ! (वयम्) मनुष्याः (त्वावतः) त्वत्सदृशस्य तव। त्वत्सदृशस्य कस्यचिद् उपमानस्य जगत्यभावात् त्वं त्वत्सदृश एवासि, तादृशस्य तवेत्यर्थः। त्वमिव इति त्वावान्, तस्य त्वावतः। युष्मदस्मदोः सादृश्ये वतुब् वाच्यः। अ० ५।२।३९ वा० इति युष्मच्छब्दात् सादृश्यार्थे वतुप्। मपर्यन्तस्य त्वादेशे आ सर्वनाम्नः। अ० ६।३।९१ इति दकारस्याऽऽकारः। (स्मसि) स्मः। अत्र इदन्तो मसि। अ० ७।१।४६ इति मसः इकारागमः ॥९॥ अत्र श्लेषः। त्वावतः तव इत्यत्र राजीवमिव राजीवम् इत्यादिवद् अनन्वयालङ्कारः३ ॥९॥
Essence
जगति विकीर्णानां सर्वेषां धनानां स्वामी, सर्वेषां नेता, सूर्यादिलोकानामधिष्ठाताऽनुपमः परमेश्वरो यथा सर्वेषां वन्द्यस्तथा बहुज्ञानकर्मादिधनो, मार्गप्रदर्शको, ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां, प्राणमनोबुद्ध्यादीनामधिष्ठाताऽद्वितीयो जीवात्माऽपि सर्वैः सेवनीयः. तथैव वेगेन हरणशीलानां विमानादीनां निर्माणचालनकुशलो विविधविद्यापारंगतः शिल्पशास्त्रविद् विद्वानपि जनैरुपसेव्यः ॥९॥ अत्रेन्द्रसम्बद्धानां वरुणमित्रार्यम्णां रक्षणप्रार्थनाद्, इन्द्रस्य गवां प्रशंसनाद्, इन्द्रतो गवाश्वादीनां प्रार्थनाद्, इन्द्रस्य सरस्वत्या आह्वानाद्, इन्द्रस्तुतिगानाद्, इन्द्रनाम्ना नृपविद्वदाचार्यादीनामपि विषयस्य वर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति द्वितीये प्रपाठके द्वितीयार्धे पञ्चमी दशतिः। समाप्तश्चार्य द्वितीयः—प्रपाठकः ॥ इति द्वितीयाध्यायेऽष्टमः खण्डः ॥
Subject
अथेन्द्रनाम्ना परमात्मा, जीवात्मा, विद्वांश्च सम्बोध्यते।
Footnote
१. ऋ० ८।४६।१, ऋषिः वशोऽश्व्यः। २. हे स्थातः अधिष्ठातः—इति वि०, भ०, सा०। ३. उपमानोपमेयत्वमेकस्यैव त्वनन्वयः। सा० द० १०।२६ इति तल्लक्षणात्।