Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 192

1875 Mantra
Devata- इन्द्रः Rishi- सत्यधृतिर्वारुणिः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
म꣡हि꣢ त्री꣣णा꣡मव꣢꣯रस्तु द्यु꣣क्षं꣢ मि꣣त्र꣡स्या꣢र्य꣣म्णः꣢ । दु꣣राध꣢र्षं꣣ व꣡रु꣢णस्य ॥१९२॥

म꣡हि꣢꣯ । त्री꣣णा꣢म् । अवरि꣡ति꣢ । अ꣣स्तु । द्युक्ष꣢म् । द्यु꣣ । क्ष꣢म् । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । अ꣣र्यम्णः꣢ । दु꣣रा꣡धर्ष꣢म् । दुः꣣ । आध꣡र्ष꣢म् । व꣡रु꣢꣯णस्य ॥१९२॥

Mantra without Swara
महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥

महि । त्रीणाम् । अवरिति । अस्तु । द्युक्षम् । द्यु । क्षम् । मित्रस्य । मि । त्रस्य । अर्यम्णः । दुराधर्षम् । दुः । आधर्षम् । वरुणस्य ॥१९२॥

Samveda - Mantra Number : 192
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्माधिदैवतः। ऋच इन्द्रदेवताकत्वाद् इन्द्रः सम्बोध्यः। हे इन्द्र परमैश्वर्यशालिन् जगदीश्वर ! तव कृपया (मित्रस्य२) अकालमरणाद् रक्षकस्य वायोः जीवात्मनो वा। मित्रः प्रमीतेस्त्रायते। निरु० १०।२१। (अर्यम्णः) यः ऋच्छति नियच्छत्याकर्षणेन पृथिव्यादीन् सोऽर्यमा सूर्यलोकः तस्य, इन्द्रियाणां नियन्तुः मनसो वा, (वरुणस्य) आच्छादकस्य मेघस्य, प्राणस्य वा, (त्रीणाम्) एतेषां त्रयाणाम्। अत्र वा छन्दसि सर्वे विधयो भवन्तीति त्रेस्त्रयः। ७।१।५३ इत्यनेम प्राप्तः त्रेस्त्रयादेशो न। (महि) महत् (द्युक्षम्) द्यां तेजः क्षाययति निवासयतीति तादृशम्, (दुराधर्षम्) दुःखेनाधर्षितुं योग्यम्, दृढम् (अवः) रक्षणम् (अस्तु) अस्मान् प्राप्नोतु ॥ संहितायाम् अवरस्तु इत्यत्र अम्नरूधरवरित्युभयथा छन्दसि। अ० ८।२।७० इत्यनेन अवस् शब्दस्य सकारो रेफमापद्यते ॥३ अथ द्वितीयः—राष्ट्रपरः। हे इन्द्र प्रजाया दुःखविदारक सुखप्रदातः राजन् ! तव व्यवस्थया (मित्रस्य) मित्रभूतस्य शिक्षाध्यक्षस्य, (अर्यम्णः) श्रेष्ठैर्दुष्टैश्च जनैर्यो यथायोग्यं व्यवहरति तस्य न्यायाध्यक्षस्य, (वरुणस्य) पाशपाणेः शस्त्रास्त्रयुक्तस्य धनुर्वेदकुशलस्य सेनाध्यक्षस्य (त्रीणाम्) एतेषां त्रयाणाम् (महि) महत् (द्युक्षम्४) राजनीतिप्रकाशपूर्णम्। द्यौः राजविद्याप्रकाशः क्षियति निवसति अत्र तादृशम्। (दुराधर्षम्) दुष्प्रधर्षम्, दुर्जय्यम्, (अवः) रक्षणम् (अस्तु) अस्मान् प्रजाजनान् प्राप्नोतु ॥८॥५ अत्र श्लेषालङ्कारः ॥८॥
Essence
परमात्मानुशासने शरीराभ्यन्तरस्था आत्ममनोबुद्धिप्राणादयो बाह्याः सूर्यपवनपर्जन्यादयश्च, राजानुशासने च सर्वे राजमन्त्रिण इतरे राज्याधिकारिणश्च स्वकीयं रक्षणादिकमस्मभ्यं प्रयच्छन्तु, येन वयमुत्कर्षाय प्रयतमानाः समस्तं प्रेयः श्रेयश्च प्राप्नुयाम ॥८॥
Subject
अथ मित्रवरुणार्यम्णां रक्षणं याचमान आह।
Footnote
१. ऋ० १०।१८५।१, य० ३।३१, देवता आदित्यः (स्वस्त्ययनम्)। २. दयानन्दर्षिर्यजुर्भाष्ये मित्रशब्देन बाह्याभ्यन्तरस्थं प्राणम्, अर्यमशब्देन सूर्यलोकं, वरुणशब्देन च वायुं जलं च गृहीतवान्। ३. द्रष्टव्यम्—ऋक्तन्त्रप्रातिशाख्यम्। उभयथा भुवोऽम्नः ऊधरवः।’ ३।७।४। भुवः, अम्नः, ऊधः, अवः एते उभयथा उभयप्रकारेण विसर्जनीयरूपेण रेफरूपेण वा वर्तन्ते (विवरणम्)। ४. (द्युक्षम्) द्यौर्नीतिः प्रकाशः क्षियति निवसति यस्मिंस्तत्—इति य० ३।३१ भाष्ये द०। ५. मित्रवरुणार्यम्णां स्वरूपं निर्वचनादिकं च १८५ संख्यकस्य मन्त्रस्य भाष्ये द्रष्टव्यम्।