Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 190

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क꣢ इ꣣मं꣡ नाहु꣢꣯षी꣣ष्वा꣢꣫ इन्द्र꣣ꣳ सो꣡म꣢स्य तर्पयात् । स꣢ नो꣣ व꣢सू꣣न्या꣡ भ꣢रात् ॥१९०

कः꣢ । इ꣣म꣢म् । ना꣡हु꣢꣯षीषु । आ । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । त꣣र्पयात् । सः꣢ । नः꣣ । व꣡सू꣢꣯नि । आ । भ꣣रात् ॥१९०॥

Mantra without Swara
क इमं नाहुषीष्वा इन्द्रꣳ सोमस्य तर्पयात् । स नो वसून्या भरात् ॥१९०

कः । इमम् । नाहुषीषु । आ । इन्द्रम् । सोमस्य । तर्पयात् । सः । नः । वसूनि । आ । भरात् ॥१९०॥

Samveda - Mantra Number : 190
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(नाहुषीषु) मानुषीषु प्रजासु। नहुष इति मनुष्यनाम। निघं० २।३। नह्यन्ते बध्यन्ते कर्मपाशैरिति नहुषाः१ मनुष्याः। णह बन्धने पृनहिकलिभ्य उषच्। उ० ४।७५ इति उषच् प्रत्ययः। (कः) को धन्यो जनः (इमम्) एतम् गुणगणाधारम् (इन्द्रम्) परमात्मानं, राजानम्, आचार्यम्, अतिथिं वा (सोमस्य) सोमेन श्रद्धारसेन, ज्ञानरसेन, उपासनारसेन, कर्मरसेन, ब्रह्मरसेन, क्षत्ररसेन, ब्रह्मचर्यरसेन, धर्मरसेन, यशोरसेन वा। अत्र तृतीयार्थे षष्ठी प्रयुक्ता। (आ तर्पयात्) समन्तात् तर्पयिष्यति, येन (सः) तर्पितोऽसौ (नः) अस्मभ्यम् (वसूनि) सर्वविधानि ऐश्वर्याणि (आ भरात्) आहरेत्। तर्पयात्, भरात् इत्युभयत्रापि क्रमेण तृप तृप्तौ, हृञ् हरणे धातोर्लेटि, लेटोऽडाटौ। अ० ३।४।९४ इत्याडागमः। भरात् इत्यत्र हृग्रहोर्भश्छन्दसि इति वार्तिकेन हस्य भः ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
Essence
परमेश्वरोपासनया, श्रद्धया, ज्ञानसंग्रहेण, कर्मणा, ब्रह्मचर्येण, तपसा, श्रमेण, धर्मेण, वैराग्येण, व्रतपालनेन इत्यादिभिः शुभाचरणैरेव परमात्मनृपत्याचार्यप्रभृतयः सर्वेऽपि प्रसीदन्ति पुष्कलमैश्वर्यं च प्रयच्छन्ति ॥६॥
Subject
अथेन्द्रस्य सोमरसतर्पणविषयमाह।
Footnote
१. नहुषः शुभाशुभकर्मबद्धो मनुष्यः इति ऋ० १।२२।८ भाष्ये द०। नहुष इति मनुष्यनाम, तेषु भवाः ज्योतिष्टोमाद्याः क्रियाः नाहुष्यः—इति वि०। मानुषीषु प्रजासु—इति भ०।