Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 19

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣ग्नि꣡मि꣢न्धा꣣नो꣡ मन꣢꣯सा꣣ धि꣡य꣢ꣳ सचेत꣣ म꣡र्त्यः꣢ । अ꣣ग्नि꣡मि꣢न्धे वि꣣व꣡स्व꣢भिः ॥१९॥

अ꣣ग्नि꣢म् । इ꣣न्धानः꣢ । म꣡न꣢꣯सा । धि꣡य꣢꣯म् स꣣चेत । म꣡र्त्यः꣢꣯ । अ꣣ग्नि꣢म् । इ꣣न्धे । वि꣣व꣡स्व꣢भिः । वि꣣ । व꣡स्व꣢भिः ॥१९॥

Mantra without Swara
अग्निमिन्धानो मनसा धियꣳ सचेत मर्त्यः । अग्निमिन्धे विवस्वभिः ॥

अग्निम् । इन्धानः । मनसा । धियम् सचेत । मर्त्यः । अग्निम् । इन्धे । विवस्वभिः । वि । वस्वभिः ॥१९॥

Samveda - Mantra Number : 19
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (मनसा) चित्तेन (अग्निम्) प्रच्छन्नरूपेण हृदये स्थितं परमात्माग्निम् (इन्धानः) प्रदीपयन्, प्रकटयन् (मर्त्यः) मरणधर्मा मनुष्यः (धियम्) कर्म। धीरिति कर्मनामसु पठितम्। निघं० २।१। (सचेत) सेवेत, इति वैदिकी प्रेरणा। षचतिः सेवनार्थः। निरु० ४।२१। तत्प्रेरणया प्रेरितोऽहम् (विवस्वभिः२) अज्ञानविवासनशीलाभिः, आदित्यवद् भासमानाभिः मनोवृत्तिभिः। विवस्वान् विवासनवान् इति निरुक्तम्। ७।२६। (अग्निम्) ज्योतिर्मयं परमात्माग्निं कर्माग्निं च (इन्धे) प्रदीपयामि, हृदये प्रकटयामि। ञिइन्धी दीप्तौ, लटि उत्तमैकवचने प्रयोगः ॥ अथ द्वितीयः—यज्ञाग्निपरः। यज्ञकर्मणे प्रेरयति। (मनसा) श्रद्धया (अग्निम्) यज्ञाग्निम् (इन्धानः) प्रदीपयन् (मर्त्यः) यजमानो मनुष्यः (धियम्) कर्म अपि, यज्ञविधिमपि (सचेत) सेवेत, कुर्यादिति भावः। इति वेदादेशः। तदनुसृत्य, अहमपि यज्ञकर्म कर्तुम् (विवस्वभिः) सूर्यकिरणैः साकम् (अग्निम्) यज्ञाग्निम् इन्धे प्रदीपयामि। एतेन प्रातः सूर्यकिरणाविर्भावकाल एव यज्ञकाल इति सूच्यते ॥९॥ अत्र श्लेषालङ्कारः ॥९॥
Essence
मर्त्यः इति पदं साभिप्रायम्। मरणधर्मा हि मानवः, न जाने कदा मृत्युना गृह्येत। अतो यज्ञकर्म कर्तुं यथाऽग्निं प्रकाशयति तथाऽस्मिन्नेव जन्मनि योगाभ्यासेन हृदये परमात्मानं प्रकाश्य यावज्जीवनमग्निहोत्रादीनि समाजसेवादीनि च वेदविहितानि कर्माण्याचरेत्। नैतन्मन्येत परमेश्वरश्चेत् साक्षात्कृतः कृतं कर्मभिरिति यतः कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः (य० ४०।२) इत्येव वैदिकः पन्थाः ॥९॥
Subject
ईश्वराराधनेन साकं कर्मापि कुर्यादित्युच्यते।
Footnote
१. ऋ० ८।१०२।२२, अग्निमिन्धे इत्यत्र अग्निमीधे इति पाठः। २. विवस्वभिः तमसां विवासयितृभिः हविर्भिः—इति वि०। विवः धनम्, तद्वद्भिः, हविर्लक्षणधनयुक्तैः काष्ठैः—इति भ०। ऋत्विग्भिरिति सा०।