Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 189

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
पा꣣वका꣢ नः꣣ स꣡र꣢स्वती꣣ वा꣡जे꣢भिर्वा꣣जि꣡नी꣢वती । य꣣ज्ञं꣡ व꣢ष्टु धि꣣या꣡व꣢सुः ॥१८९॥

पा꣣वका꣢ । नः꣣ । स꣡र꣢꣯स्वती । वा꣡जे꣢꣯भिः । वा꣣जि꣡नी꣢वती । य꣣ज्ञ꣢म् । व꣣ष्टु । धिया꣡व꣢सुः । धि꣣या꣢ । व꣣सुः ॥१८९॥

Mantra without Swara
पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥

पावका । नः । सरस्वती । वाजेभिः । वाजिनीवती । यज्ञम् । वष्टु । धियावसुः । धिया । वसुः ॥१८९॥

Samveda - Mantra Number : 189
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—वेदवाक्पक्षे। ऋचः इन्द्रदेवताकत्वाद् इन्द्रः सम्बोध्यः। हे इन्द्र परमेश्वर ! त्वदीया (वाजिनीवती२) क्रियामयी कर्मोपदेशिका वा। वाजोबलं यास्वस्ति ताः वाजिन्यः क्रियाः, तद्वती। (सरस्वती) ज्ञानमयी वेदवाणी। सरस्वती इति वाङ्नामसु पठितम्। (वाजेभिः) वाजैः विज्ञानबलैः (नः) अस्माकम् (पावका३) पाविका पावयित्री, भवतु इति शेषः। पावकादीनां छन्दस्युपसंख्यानम्। अ० ७।३।४५ वा० इत्यनेन प्रत्ययस्थात् कात्० अ० ७।३।४४ इति प्राप्तस्य इकारस्य निषेधः। (धियावसुः४) धिया ज्ञानक्रमोपदेशेन वासयित्री सा। धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। वाग् वै धियावसुः। ऐ० आ० १।११४। धिया इत्यत्र सावेकाचः अ० ६।१।१६८ इति विभक्तिरुदात्ता। तृतीयातत्पुरुषत्वात् तत्पुरुषे तुल्यार्थतृतीया अ० ६।२।२ इति पूर्वपदप्रकृतिस्वरः। (यज्ञम्) अस्माकं जीवनयज्ञम् (वष्टु) निर्वहतु, संस्करोतु। वश कान्तौ। यज्ञं वष्टु इति यदाह यज्ञं वहतु इत्येव तदाह। ऐ० आ० १।१।४ ॥ अथ द्वितीयः—गुरुवाक्पक्षे। गुरवः कामयन्ते। हे इन्द्र परमात्मन् ! त्वत्कृपया (नः) अस्माकम् (वाजिनीवती) विद्यावती५ (सरस्वती६) वाणी (वाजेभिः) सदाचारधनैः (पावका) शिष्याणां पावयित्री, भवत्विति शेषः। (धियावसुः) धिया बुद्धिपूर्वकं शिष्येषु ज्ञानस्य वासयित्री सा (यज्ञम्) शिक्षायज्ञम् (वष्टु) सम्यग् निर्वहतु ॥ अथ तृतीयः—विदुषीपक्षे। हे इन्द्र विद्वन् गृहपते ! (वाजिनीवती) क्रियाशीला (सरस्वती७) विदुषी माता। सरः प्रशस्तं ज्ञानं विद्यते यस्याः सा सरस्वती। (वाजेभिः) सात्त्विकैः स्वास्थ्यकरैः अन्नादिभिः भोज्यपदार्थैः, बलप्रदानैः, सदाचारशिक्षणैश्च (नः) सन्तानानामस्माकम् (पावका) देहस्य मनसश्च पावयित्री, भवतु। (धियावसुः) बोधप्रदानेन वासयित्री सा (यज्ञम्) गृहस्थयज्ञम् (वष्टु) निर्वोढुं कामयताम् ॥५॥८ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—पावका नः सरस्वती अन्नैरन्नवती यज्ञं वष्टु धियावसुः कर्मवसुः। निरु० ११।२६ इति ॥ अत्र श्लेषालङ्कारः ॥५॥
Essence
यथा परमेश्वरस्य वेदवाणी श्रोतॄणां हितं साध्नोति, यथा वा गुरूणां वाणी शिष्याणां हितं साध्नोति, तथैव विदुष्यो मातरः सन्तानानां हितं साध्नुयुः ॥५॥
Subject
अथ वाग्विषयं विदुषीविषयं चाह।
Footnote
१. ऋ० १।३।१०, य० २०।८४, उभयत्र देवता सरस्वती। २. वाजेभिः मदीयैः रत्नैः हविर्लक्षणैर्वा अन्नैः वाजिनीवती अन्नवती इत्यर्थः। अथवा—वाजः बलं वेगो वा, तद् यस्यां विद्यते सा वाजिनी सेना तद्वती—इति वि०। वाजसमूहः वाजिनी तद्वती—इति भ०। वाजोऽन्नमास्विति वाजिन्यः क्रियाः। अत इनिठनौ। अ० ५।२।११५ इति इनिप्रत्ययः. ताः क्रिया यस्याः सन्ति सा सरस्वती वाजिनीवती—इति ऋ० १।३।१० भाष्ये सा०। वाजिनीवती सर्वविद्यासिद्धक्रियायुक्ता। वाजिनः क्रियाप्राप्तिहेतवो व्यवहारास्तद्वती। वाजिन इति पदनामसु पठितम्। निघं० ५।६। अनेन वाजिनीति गमनार्था प्राप्त्यर्था च क्रिया गृह्यते कृति तत्रैव ऋग्भाष्ये द०। ३. तुलनीयम्—स्तुता मया वरदा वेदमाता प्रचोदयन्तां पावमानी द्विजानाम्। अथ० १९।७१।१ इति। ४. धीः वसुभूता यस्यां सा धियावसुः कर्मधना प्रज्ञाधना वा। अथवा वसुरित्येतद् वस आच्छादने इत्येतस्येदं रूपम्। प्रज्ञया आच्छादयित्री सर्वस्य जगतः—इति वि०। (धियावसुः) शुद्धकर्मणा सह वासप्रापिका। तत्पुरुषे कृति बहुलम्। अ० ६।३।१४ अनेन तृतीयातत्पुरुषे विभक्त्यलुक्—इति ऋ० १।३।१० भाष्ये द०। ५. (वाजिनीवती) प्रशस्तविद्यायुक्ता इति य० २०।८४ भाष्ये द०। ६. (सरस्वती) सरसः प्रशंसिता ज्ञानादयो गुणा विद्यन्ते यस्यां सा सर्वविद्याप्रापिका वाक्। सर्वधातुभ्योऽसुन्। उ० ४।१८९ अनेन गत्यर्थात् सृ धातोरसुन् प्रत्ययः। सरन्ति प्राप्नुवन्ति सर्वा विद्या येन तत् सरः। अस्मात् प्रशंसायां मतुप् इति ऋ० १।३।१० भाष्ये द०। ७. (सरस्वती) प्रशस्तविज्ञानयुक्ता (विदुषी स्त्री)—इति य० २०।८५ भाष्ये द०। ८. दयानन्दर्षिर्ऋग्भाष्ये यजुर्भाष्ये च मन्त्रमिमं वाक्पक्षे व्याख्यातवान्।