Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 188

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣या꣢ धि꣣या꣡ च꣢ गव्य꣣या꣡ पु꣢꣯रुणामन्पुरुष्टुत । य꣡त्सोमे꣢꣯सोम꣣ आ꣡भु꣢वः ॥१८८॥

अ꣣या꣢ । धि꣣या꣢ । च꣣ । गव्यया꣢ । पु꣡रु꣢꣯णामन् । पु꣡रु꣢꣯ । ना꣣मन् । पुरुष्टुत । पुरु । स्तुत । य꣢त् । सो꣡मे꣢꣯सोमे । सो꣡मे꣢꣯ । सो꣣मे । आ꣡भु꣢꣯वः । आ꣣ । अ꣡भु꣢꣯वः ॥१८८॥

Mantra without Swara
अया धिया च गव्यया पुरुणामन्पुरुष्टुत । यत्सोमेसोम आभुवः ॥

अया । धिया । च । गव्यया । पुरुणामन् । पुरु । नामन् । पुरुष्टुत । पुरु । स्तुत । यत् । सोमेसोमे । सोमे । सोमे । आभुवः । आ । अभुवः ॥१८८॥

Samveda - Mantra Number : 188
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पुरुणामन्२) सर्वान्तर्यामिन्, वेदेषु शक्रवृत्रहमघवच्छचीपत्यादिबहुनामभिर्वर्णित वा ! पुरुषु बहुषु पदार्थेषु नमति व्याप्नोति यः सः यद्वा पुरूणि बहूनि नामानि यस्य सः पुरुणामा, तत्सम्बुद्धौ। (पुरुष्टुत) बहुस्तुत इन्द्र परमात्मन् ! (अया) अनया (गव्यया३) गोकामया, गावः आत्मसूर्यकिरणाः तत्प्राप्तिकामया इत्यर्थः (धिया) बुद्ध्या ध्यानशृङ्खलया वा (च) एव, एतत् संभवति (यत्) यत् त्वम् (सोमेसोमे) अस्माकं प्राणेप्राणे, प्रतिश्वासमित्यर्थः। प्राणः सोमः। श० ७।३।१।२। (आभुवः) आभवेः व्याप्नुयाः इति। आङ्पूर्वाद् भवतेर्लेटि रूपम् ॥४॥
Essence
यदि वयं तमोगुणेनावृतान् आत्मसूर्यस्य किरणान् निश्चयात्मिक्या बुद्ध्या ध्यानेन च पुनः प्राप्तुं प्रयतेमहि, तदैवैतत् संभवति यत् परमेश्वरोऽस्माकं प्राणं प्राणं, श्वासं श्वासं, रोम रोम च व्याप्नुयादिति ॥४॥
Subject
अथ परमात्मप्राप्त्युपायं वर्णयति।
Footnote
१. ऋ० ८।९३।१७, ऋषिः सुकक्षः। आभुवः इत्यत्र आभयः इति पाठः। २. पुर्विति बहुनाम, नमतिः प्रह्वीभावे। बहवः शत्रवः यं प्रति नमन्ति स पुरुनामा, तस्य सम्बोधनं पुरुनामन्, बहूनां शत्रूणां प्रह्वीकर्तः इत्यर्थः—इति वि०। पुरुरूप बहुनामेत्येव वा—इति भ०। बहुविधशक्रवृत्रहादिनामोपेत, यद्वा बहुस्तुतिमन्, नमयति स्तुत्यं देवं वशं नयतीति नाम स्तोत्रम्—इति सा०। ३. अया अनया धिया प्रज्ञया त्वां स्तुमः इति वाक्यशेषः। गव्यया गविच्छया—इति वि०। अया अनया धिया स्तुत्या त्वां स्तुमः इति शेषः। च इति पूरणः। गव्यया गोकामनया—इति भ०। अया अनया ईदृश्या गव्यया गाः आत्मनः इच्छन्त्या धिया बुद्ध्या युक्ता भवेम—इति सा०।