Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1875

1875 Mantra
Devata- विश्वे देवाः Rishi- गोतमो राहूगणः Chhand- विराट्स्थाना त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स्व꣣स्ति꣢ न꣣ इ꣡न्द्रो꣢ वृ꣣द्ध꣡श्र꣢वाः स्व꣣स्ति꣡ नः꣢ पू꣣षा꣢ वि꣣श्व꣡वे꣢दाः । स्व꣣स्ति꣢ न꣣स्ता꣢र्क्ष्यो꣣ अ꣡रि꣢ष्टनेमिः स्व꣣स्ति꣢ नो꣣ बृ꣢ह꣣स्प꣡ति꣢र्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥

स्व꣣स्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । इ꣡न्द्रः꣢꣯ । वृ꣣द्ध꣡श्र꣢वाः । वृ꣣द्ध꣢ । श्र꣣वाः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । पूषा꣢ । वि꣣श्व꣡वे꣢दाः । वि꣣श्व꣢ । वे꣣दाः । स्वस्ति꣢ सु꣣ । अस्ति꣢ । नः꣣ । ता꣡र्क्ष्यः꣢꣯ । अ꣡रि꣢꣯ष्टनेमिः । अ꣡रि꣢꣯ष्ट । ने꣣मिः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु ॥१८७५॥

Mantra without Swara
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥

स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु ॥१८७५॥

Samveda - Mantra Number : 1875
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृद्धश्रवाः) वृद्धं श्रवः कीर्तिर्यस्य सः (इन्द्रः) जगत्पतिः परमेश्वरः (नः) अस्मभ्यम् (स्वस्ति) मङ्गलम् (दधातु) वितरतु। (विश्ववेदाः) विश्वं वेदो धनं यस्य सः (पूषा) पुष्टिप्रदो जगदीश्वरः (नः) अस्मभ्यम् (स्वस्ति) मङ्गलं (दधातु) वितरतु। (अरिष्टनेमिः) अरिष्टा अक्षता नेमिः व्याप्तिपरिधिर्यस्य सः (तार्क्ष्यः) सर्वगतः सर्वान्तर्यामी परमः पिता [गत्यर्थात् तृक्षधातोर्ण्यत् ततः स्वार्थेऽण्।] (नः) अस्मभ्यम् (स्वस्ति) मङ्गलं (दधातु) वितरतु। (बृहस्पतिः) बृहः बृहत्या वेदवाचः पतिरधीश्वरः सर्वज्ञानमयः पूर्वेषामपि गुरुः सर्वेशः (नः) अस्मभ्यम् (स्वस्ति) मङ्गलम् (दधातु) वितरतु ॥३॥२
Essence
इन्द्रादिविविधनामभिः श्रुतौ वर्णितस्य विश्रुतकीर्त्तेः सुपोषकस्य सर्वान्तर्यामिनः सर्वज्ञस्य सलयैः सामभिर्गीतस्य जगदीश्वरस्यानुध्यानेन यथाशक्ति यथासंभवं तद्गुणान् स्वात्मनि निधाय सर्वे मनुष्या ऐहिकं पारमार्थिकं च शोभनास्तित्वं सुमङ्गलं सुपूजितत्वं च सततं विन्दन्तु ॥३॥ अस्मिन्नध्याये जीवात्मनः प्रोद्बोधनपूर्वकं देवासुरसंग्रामे विजयार्थं प्रेरणादाशीर्योजनात् स्वस्तिप्रार्थनाच्चैतस्याध्यायस्य पूर्वाध्यायेन संगतिरस्तीति वेद्यम् ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालरामभगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द-सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्य-भाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके नवमः प्रपाठकः उत्तरार्चिकश्च समाप्तिमगात् ॥ समाप्तं चेदं सामवेदभाष्यम् ॥ ऋतुवेदखनेत्रेऽब्दे चैत्रमासि सिते दले । पञ्चम्यां वासरे सोमे भाष्यं पूर्तिमगादिदम् ॥
Subject
अथान्ते स्वस्ति प्रार्थ्यते।