Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1874

1875 Mantra
Devata- विश्वे देवाः Rishi- गोतमो राहूगणः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
भ꣣द्रं꣡ कर्णे꣢꣯भिः शृणुयाम देवा भ꣣द्रं꣡ प꣢श्येमा꣣क्ष꣡भि꣢र्यजत्राः । स्थि꣣रै꣡रङ्गै꣢꣯स्तुष्टु꣣वा꣡ꣳस꣢स्त꣣नू꣢भि꣣꣬र्व्य꣢꣯शेमहि दे꣣व꣡हि꣢तं꣣ य꣡दायुः꣢꣯ ॥१८७४॥

भद्र꣢म् । क꣡र्णे꣢꣯भिः । शृ꣣णुयाम । देवाः । भद्र꣢म् । प꣣श्येम । अक्ष꣡भिः꣢ । अ꣢ । क्ष꣡भिः꣢꣯ । य꣣जत्राः । स्थिरैः꣢ । अ꣡ङ्गैः꣢꣯ । तुष्टु꣣वा꣡ꣳसः꣢ । तु꣣ । स्तुवा꣡ꣳसः꣢ । त꣣नू꣡भिः꣢ । वि । अ꣣शेमहि । देव꣡हि꣢तम् । दे꣣व꣢ । हि꣣तम् । य꣢त् । आ꣡युः꣢꣯ ॥१८७४॥

Mantra without Swara
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥

भद्रम् । कर्णेभिः । शृणुयाम । देवाः । भद्रम् । पश्येम । अक्षभिः । अ । क्षभिः । यजत्राः । स्थिरैः । अङ्गैः । तुष्टुवाꣳसः । तु । स्तुवाꣳसः । तनूभिः । वि । अशेमहि । देवहितम् । देव । हितम् । यत् । आयुः ॥१८७४॥

Samveda - Mantra Number : 1874
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देवाः) विद्वांसः ! वयम् (कर्णेभिः) कर्णैः श्रोत्रैः (भद्रम्) कल्याणं वचनम् (शृणुयाम) आकर्णयेम। हे (यजत्राः) यजनीया मातापित्राचार्यवानप्रस्थसंन्यासिप्रभृतयो जनाः ! वयम् (अक्षभिः) नेत्रैः (भद्रम्) कल्याणं दृश्यम् (पश्येम) अवलोकयेम। (तुष्टुवांसः) जगदीश्वरं स्तुतवन्तः वयम् (स्थिरैः) दृढैः (अङ्गैः) शिर आदिभिः ब्रह्मचर्यादिभिश्च, (तनूभिः) अन्नमयप्राणमयमनोमयादिभिः शरीरैश्च (यत् देवहितम्२) देवेभ्यः सज्जनेभ्यो हितम् यद्वा देवेन परमात्मना निहितं न्यूनान्न्यूनं शतवार्षिकम् (आयुः) आयुष्यम् अस्ति, तत् (व्यशेमहि) सम्प्राप्नुयाम ॥२॥३
Essence
मनोबुद्धिप्राणचक्षुःश्रोत्रादीनि यान्यनुपमानि साधनानि मनुष्येभ्यः परमात्मना प्रदत्तानि तेषां सदुपयोगेन भद्रजीवनयापनपुरस्सरं पुरुषायुषं प्राप्याध्यात्मिकी भौतिकी चोन्नतिः सततं कार्या ॥२॥
Subject
अथ स्वाकाङ्क्षां प्रकटयति।