Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1873

1875 Mantra
Devata- इन्द्रः Rishi- जय ऐन्द्रः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मृ꣣गो꣢꣫ न भी꣣मः꣡ कु꣢च꣣रो꣡ गि꣢रि꣣ष्ठाः꣡ प꣢रा꣣व꣢त꣣ आ꣡ ज꣢गन्था꣣ प꣡र꣢स्याः । सृ꣣क꣢ꣳ स꣣ꣳशा꣡य꣢ प꣣वि꣡मि꣢न्द्र ति꣣ग्मं꣡ वि शत्रू꣢꣯न् ताढि꣣ वि मृधो꣢꣯ नुदस्व ॥१८७३॥

मृ꣣गः꣢ । न । भी꣣मः꣢ । कु꣣चरः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣राव꣡तः꣢ । आ । ज꣣गन्थ । प꣡र꣢꣯स्याः । सृ꣣क꣢म् । स꣣ꣳशा꣡य꣢ । स꣣म् । शा꣡य꣢꣯ । प꣣वि꣢म् । इ꣣न्द्र । तिग्म꣢म् । वि । श꣣त्रू꣢꣯न् । ता꣢ढि । वि꣢ । मृ꣡धः꣢꣯ । नु꣣दस्व ॥१८७३॥

Mantra without Swara
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । सृकꣳ सꣳशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥

मृगः । न । भीमः । कुचरः । गिरिष्ठाः । गिरि । स्थाः । परावतः । आ । जगन्थ । परस्याः । सृकम् । सꣳशाय । सम् । शाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताढि । वि । मृधः । नुदस्व ॥१८७३॥

Samveda - Mantra Number : 1873
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) वीर मानव ! त्वम् (भीमः) भयङ्करः, (कुचरः) भूचरः, (गिरिष्ठाः) पर्वतगुहानिवासी (मृगः न) सिंह इव (भीमः) दुष्टानां भयङ्करः, (कुचरः) भूविहर्ता, (गिरिष्ठाः) पर्वतवदुन्नते पदे स्थितिं लब्धा, भवेति शेषः। (परावतः) परागतवतो देशात् (परस्याः) परवर्तिन्या अपि दिशः (आ जगन्थ) शत्रुभिर्योद्धुम् आयाहि। (सृकम्) सरणशीलम्, (तिग्मम्) तीक्ष्णम् (पविम्) वज्रम्, शस्त्रास्त्रसमूहमिति यावत् (संशाय) भूयोऽपि तीक्ष्णीकृत्य (शत्रून्) रिपून् (वि ताढि२) विताडय, (मृधः) हिंसकान् (विनुदस्व) दूरं विद्रावय। [परावतः, ‘उपसर्गाच्छन्दसि धात्वर्थे’ अ० ५।१।११८ इति वतिः प्रत्ययः। संशाय, संपूर्वः शो तनूकरणे दिवादिः, क्त्वो ल्यप्] ॥१॥३ यास्काचार्येण निरुक्ते नैघण्टुकदेवताप्रकरणे मन्त्रस्य प्रथमश्चरण एवं व्याख्यातः—[“मृगो न भीमः कुचरो गिरिष्ठाः। मृग इव भीमः कुचरो गिरिष्ठाः। मृगो मार्ष्टेर्गतिकर्मणः, भीमो बिभ्यत्यस्माद्, भीष्मोऽप्येतस्मादेव। कुचर इति चरतिकर्म कुत्सितम्, अथ चेद् देवताभिधानं क्वायं न चरतीति। गिरिष्ठा गिरिस्थायी। गिरिः पर्वतः समुद्गीर्णो भवति” इति (निरु० १।२०)] ॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥
Essence
मनुष्यैः स्वात्मनि वीरतां सञ्चित्य यथा बाह्याः शत्रवः पराजेयास्तथैवाभ्यन्तरा अपि निर्मूलनीयाः ॥१॥
Subject
तत्रादौ मानवमुद्बोधयति।