Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1872

1875 Mantra
Devata- संग्रामशिषः Rishi- पायुर्भारद्वाजः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
यो꣢ नः꣣ स्वो꣡ऽर꣢णो꣣ य꣢श्च꣣ नि꣢ष्ट्यो꣣ जि꣡घा꣢ꣳसति । दे꣣वा꣡स्तꣳ सर्वे꣢꣯ धूर्वन्तु꣣ ब्र꣢ह्म꣣ व꣢र्म꣣ ममान्त꣢꣯र꣣ꣳ श꣢र्म꣣ व꣢र्म꣣ म꣡मा꣢न्त꣢꣯रम् ॥१८७२॥

यः꣢ । नः꣣ । स्वः꣢ । अ꣡रणः꣢꣯ । यः । च꣣ । नि꣡ष्ट्यः꣢꣯ । जि꣡घा꣢꣯ꣳसति । दे꣣वाः꣢ । तम् । स꣡र्वे꣢꣯ । धू꣣र्वन्तु । ब्र꣡ह्म꣢꣯ । व꣡र्म꣢꣯ । म꣡म꣢꣯ । अ꣡न्त꣢꣯रम् । श꣡र्म꣢꣯ । व꣡र्म꣢꣯ । म꣡म꣢꣯ । अ꣡न्त꣢꣯रम् ॥१८७२॥

Mantra without Swara
यो नः स्वोऽरणो यश्च निष्ट्यो जिघाꣳसति । देवास्तꣳ सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरꣳ शर्म वर्म ममान्तरम् ॥

यः । नः । स्वः । अरणः । यः । च । निष्ट्यः । जिघाꣳसति । देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् । शर्म । वर्म । मम । अन्तरम् ॥१८७२॥

Samveda - Mantra Number : 1872
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः नः) अस्मान् (स्वः) स्वकीयो दुर्भावः, (अरणः) परकीयो दुर्भावः। [अरणः अपार्णो भवति। निरु० ३।२।] (यः च निष्ठ्यः) शत्रोः दुर्भावः (जिघांसति) हन्तुमिच्छति, (तम्) कामक्रोधादिकं दुर्भावम् (सर्वे) समस्ताः (देवाः) दिव्यगुणाः, सदाचारिणो विद्वांसो जना वा (धूर्वन्तु) हिंसन्तु। [धुर्वी हिंसार्थः, भ्वादिः।] (ब्रह्म) महान् जगदीश्वरः (मम) मदीयम् (अन्तरम्) मध्ये भवम् (वर्म) कवचम् रक्षासाधनम् अस्तु, (शर्म) जगदीशशरणम् (मम) मदीयम् (अन्तरम्) मध्ये भवम् (वर्म) कवचम् रक्षासाधनम् अस्तु ॥३॥२
Essence
कदाचिन्मनुष्यः स्वमनोभवे पापे प्रवर्तते कदाचिच्च परिचितजनप्रेरिते शत्रुप्रेरिते वा पापे लिप्यते। दिव्यविचारैर्विद्वत्सङ्गेन परमेश्वरानुध्यानेन च तानि पापानि विनाश्य स निष्पापः सच्चरित्रश्च भवितुं शक्नोति ॥३॥
Subject
अथ जिघांसोर्विनाशोपायं दर्शयति।