Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1871

1875 Mantra
Devata- संग्रामशिषः Rishi- अप्रतिरथ ऐन्द्रः पायुर्भारद्वाजो वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣣न्धा꣡ अ꣢मित्रा भवताशीर्षा꣣णो꣡ऽह꣢य इव । ते꣡षां꣢ वो अ꣣ग्नि꣡नु꣢न्नाना꣣मि꣡न्द्रो꣢ हन्तु꣣ व꣡रं꣢वरम् ॥१८७१

अन्धाः꣢ । अ꣣मित्राः । अ । मित्राः । भवत । अशीर्षाणः꣢ । अ꣣ । शीर्षाणः꣢ । अ꣡ह꣢꣯यः । इ꣣व । ते꣡षा꣢꣯म् । वः꣣ । अग्नि꣡नु꣢न्नानाम् । अ꣣ग्नि꣢ । नु꣣न्नानाम् । इ꣡न्द्रः꣢꣯ । ह꣣न्तु । व꣡रं꣢꣯वरम् । व꣡र꣢꣯म् । व꣣रम् ॥१८७१॥

Mantra without Swara
अन्धा अमित्रा भवताशीर्षाणोऽहय इव । तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ॥१८७१

अन्धाः । अमित्राः । अ । मित्राः । भवत । अशीर्षाणः । अ । शीर्षाणः । अहयः । इव । तेषाम् । वः । अग्निनुन्नानाम् । अग्नि । नुन्नानाम् । इन्द्रः । हन्तु । वरंवरम् । वरम् । वरम् ॥१८७१॥

Samveda - Mantra Number : 1871
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 21; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अमित्राः) आन्तरा बाह्याश्च रिपवः ! यूयम् (अन्धाः) दर्शनासमर्थाः (अशीर्षाणः अहयः इव) छिन्नफणाः सर्पा इव च प्रभावहीनाः (भवत) जायध्वम्। (अग्निनुन्नानां तेषां वाः) अग्निवत् प्रोज्ज्वलेन दृढसंकल्पेन दूरं प्रेरितानां तेषां युष्माकम् (वरं-वरम्) प्रधानं प्रधानम् अवचित्य (इन्द्रः) अन्तरात्मा (हन्तु) विनाशयतु ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
भयङ्करं फटाटोपं दर्शयन्तो विषधरा अपि छिन्नशिरस्काः सन्तो यथाऽकिञ्चित्करा भवन्ति तथैव प्रबलसंकल्पेन हृतबला आभ्यन्तरा बाह्याश्च सर्वे सपत्ना निष्क्रिया मृताश्च जायन्ताम् ॥२॥
Subject
अथामित्रान् भर्त्सयति।